________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
४७७
तथाच रहस्याधिकारे वसिष्ठः - 'वैशाख्यां पौर्णमास्यां तु ब्राह्मणान्संप्त पञ्च वा । क्षौद्रयुक्तैस्तिलैः कृष्णैर्वाचयेदथवेतरैः ॥ प्रीयतां धर्मराजेति यद्वा मनसि वर्तते । यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ॥' इति ॥ तथा अनियतकालेऽपि दानं तेनैवोक्तम्- 'कृष्णाजिने तिलान्कृत्वा हिरण्यं मधुसर्पिषी । ददाति यस्तु विप्राय सर्व तरति दुष्कृतम् ॥' इति । तथा व्यासेनाप्युक्तम्- 'तिलधेनुं च यो दद्यात्संयतात्मा द्विजन्मने । ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ॥' इति । एवमादि दानजातं रहस्यकाण्डोक्तमविदुषां द्विजानां स्त्रीशूद्रयोश्च वेदितव्यम् । यत्तु यमेनोक्तम्- 'तिलान्ददाति यः प्रातस्तिलान्स्पृशति खादति । तिलस्नायी तिलान्जुह्वन्सर्व तरति दुष्कृतम् ॥' तथा - 'द्वे चाष्टम्यौ तु मासस्य चतुर्दश्यौ तथैव च । अमावास्या पौर्णमासी सप्तमी द्वादशद्वयम् ॥ संवत्सरमभुञ्जानः सततं विजितेन्द्रियः । मुच्यते पातकैः सर्वैः स्वर्गलोकं च गच्छति ॥' इति । यच्चात्रिणोक्तम्- 'क्षीराब्धौ शेषपर्यङ्के त्वाषाढ्यां संविशेद्धरिः। निद्रां त्यजति कार्तिक्यां तयोः संपूजयेद्धरिम् ॥ ब्रह्महत्यादिकं पापं क्षिप्रमेव व्यपोहति ॥ इत्येवमादि तत्सर्वं विद्याविरहिणां कामाकामसकृदसकृदभ्यासविषयतया व्यवस्थापनीयम् ॥ ३०९ ॥
वेदाभ्यासरतं क्षान्तं पञ्चयज्ञक्रियापरम् ।
न स्पृशन्तीह पापानि महापातकजान्यपि ॥ ३१० ॥
किंच | 'वेदस्वीकरणं पूर्व विचारोऽभ्यसनं जपः । तद्दानं चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधा ॥' इत्युक्तक्रमेण वेदाभ्यासनिरतं तितिक्षायुक्तं पञ्चमहायज्ञानुष्ठाननिरतं महापातकजान्यपि पापानि न स्पृशन्ति । किमुत प्रकीर्णकजानि वाङ्मनसजन्योपपातकानि चेत्यत्र तात्पर्यमपिशब्दालक्ष्यते । एतच्चाकामकारविषयम् । अतएव वसिष्ठेन - ' यद्यकार्यशतं साग्रं कृतं वेदश्व धार्यते । सर्वं तत्तस्य वेदाग्निर्दहत्यग्निरिवेन्धनम् ॥' इति प्रकीर्णकाद्यभिप्रायेणाभिधायाभिहितम् - 'न वेदबलमाश्रित्य पापकर्मरतिर्भवेत् । अज्ञानाच्च प्रमादाच्च दह्यते कर्म नेतरत् ॥' इति ॥ ३१० ॥
वायुभक्षो दिवा तिष्ठन् रात्रिं नीत्वाप्सु सूर्यदृक् ।
जत्वा सहस्रं गायत्र्याः शुद्धह्मवधाते || ३११ ॥
किंच | सोपवासो वासरमुपविशन् उषित्वा सलिले वसन्निशां नीत्वादित्योदयानन्तरं सावित्र्याः सहस्रं जहवा ब्रह्मवधव्यतिरिक्त सकलमहापातकादिपापजातान्मुच्यते । अतश्चोपपातकादिष्वभ्यासेऽनेकदोषसमुच्चये वा वेदितव्यम् । विषमविषयसमीकरणस्यान्याय्यत्वात् । अतएव वृद्धवसिष्ठेन महापातकोपपातकयोः कालविशेषेण व्रतविशेष उक्तः । यथाह - 'यवानां प्रसृतिमञ्जलिं वा श्रप्यमाणं शैतं वाभिमन्त्रयेत् 'यवोऽसि धान्यराजस्त्वं वारुणो मधुसंयुतः ।
१ पञ्चसप्त च ख. २ किल्बिषं ङ. ३ घृतं चाभिमन्त्रयेत् ख.
For Private And Personal Use Only