________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता ।
४४९
काद्युपपातकप्रायश्चित्तानि जातिशक्तिगुणाद्यपेक्षया योज्यानि । यत्तु वसिष्ठेनोक्तम्- 'ब्रह्मोज्झः कृच्छ्रं द्वादशरात्रं चरित्वा पुनरुपयुञ्जीत वेदमाचार्यात्' इति तदत्यन्तापद्विषयम् । अग्नित्यागेऽपि तेनैव विशेषो दर्शितः - 'योऽग्नीनपविध्येत्स कृच्छ्रं द्वादशरात्रं चरित्वा पुनराधेयं कारयेत्' इति । द्वादशरात्रग्रहणमुत्सन्न कालापेक्षया प्राजापत्यादिगुरुलघुकृच्छ्राणां प्रात्यर्थम् । तत्र मासद्वये प्राजापत्यं मासचतुष्टयेऽतिकृच्छ्रः । षण्मासोच्छिन्ने पराकः । पण्मासादूर्ध्वं योगीश्वरोक्तान्युपपातकसामान्यप्रायश्चित्तानि कालाद्यपेक्षया योज्यानि । संवत्सरादूर्ध्वं तु मानवं त्रैमासिकं द्वैमासिकमिति व्यवस्था । एतच्च नास्तिक्येन त्यागविषयम् । तथाच व्याघ्रः - 'योऽग्निं त्यजति नास्तिक्यात्प्राजापत्यं चरेद्विजः' इति । यदा तु प्रमादात्यजति तदा भारद्वाजगृह्ये विशेष उक्तः - 'प्राणायामशतमात्रिरात्रादुपवासः स्यादाविंशतिरात्रात् अतऊर्ध्वमाषष्टिरात्रात्तित्रो रात्रीरुपवसेदत ऊर्ध्वमासंवत्सरात् प्राजापत्यं चरेत् अतऊर्ध्वं कालबहुत्वे दोषगुरुत्वम्' इति । यदा वास्यादिना त्यजति तदपि तेनैव विशेष उक्तः - -'द्वादशाहातिक्रमे त्र्यहमुपवासो मासातिक्रमे द्वादशाह मुपवासः संवत्सरातिक्रमे मासोपवासः पयोभक्षणं वा' इति । संवत्सरादूर्ध्वं तु वृद्धहारीतेन विशेष उक्तः - - 'संवत्सरोत्स
ग्निहोत्रे चान्द्रायणं कृत्वा पुनरादध्यात् । द्विवर्षोत्सन्ने चान्द्रायणं सोमायनं च कुर्यात् । त्रिवर्षोत्सने संवत्सरं कृच्छ्रमभ्यस्य पुनरादध्यात्' इति । सोमायनं कृच्छ्रकाण्डे वक्ष्यते । शङ्खेनापि विशेष उक्तः - 'अभ्युत्सादी संवत्सरं प्राजापत्यं चरेद्रां च दद्यात्' इति ॥ सुतत्यागे बन्धुत्यागे च त्रैमासिकं गोवधव्रतं कामतः । अकामतस्तु योगीश्वरोक्तं व्रतचतुष्टयं शक्त्याद्यपेक्षया योज्यम् ॥ द्रुमच्छेदे प्रायश्चित्तं प्रागुक्तम् । स्त्रीप्राणिवध वशीकरणादिभिर्जीवने तिलेक्षुयत्रप्रवर्तने च तान्येव प्रायश्चित्तानि तथैव योज्यानि । व्यसनेषु च द्यूतमृगयादिषु तान्येव व्रतानि तथैव योज्यानि । यत्तु बौधायनेन - 'अथाशुचिकराणि द्यूतमभिचारोऽनाहिताग्नेरुन्छवृत्तिः समावृत्तस्य च भैक्षचर्या तस्य च गुरुकुले वास ऊर्ध्वं चतुभ्य मासेभ्यो यश्च तमध्यापयति नक्षत्र निर्देशनं चेति द्वादशमासान्द्वादशार्धमासान्द्वादशाहान्द्वादशषडहान्द्वादशत्र्यहांश्च त्र्यहमेकाहमित्यशुचिकर निर्देशः' इति द्यूते वार्षिकतमुक्तं तदद्भ्भ्यासविषयम् । यत्तु प्रचेतसोक्तम्- 'अनृतवाकू तस्करो राजभृत्यो वृक्षारोपकवृत्तिर्गरदोऽग्निदोऽश्वरथगजारोहणवृत्ती रङ्गोपजीवी वागणिकः शूद्रोपाध्यायो वृषलीपतिर्भाण्डिको नक्षत्रोपजीवी श्ववृत्तिर्ब्रह्मजीवी चिकित्सको देवलकः पुरोहितः कितवो मद्यपः कूटकारकोऽपत्यविक्रयी मनुष्यपशुविक्रेता चेति तानुद्धरेत्समेत्य न्यायतो ब्राह्मणव्यवस्थया सर्वद्रव्यत्यागे चतुर्थकालाहाराः संवत्सरं त्रिषवणमुपस्पृशेयुस्तस्यान्ते देवपितृतर्पणं गवाह्निकं चेत्येवं व्यवहार्या ।' इति तदपि बौधायनेन समानविषयम् । श्वागणिको यः श्वगणेन जी - वति । भाण्डको बन्दिव्यतिरिक्तो राज्ञां तूर्यादिस्वनैः प्रबोधयिता । बन्दिनः पृथगुपादानात् । श्ववृत्तिः सेवकः । ब्रह्मजीवी ब्राह्मणकार्येषु मूल्येन परिचारकः
१ शक्त्यपेक्षया ङ. २ व्यवस्थापनीयानि. ३ द्विजकार्येषु ङ.
For Private And Personal Use Only