________________
Shri Mahavir Jain Aradhana Kendra
१४
www. kobatirth.org
याज्ञवल्क्यस्मृतिः ।
[ आचाराध्यायः
सहैकशरीरारम्भकत्वेन । एवं यत्र यत्र सपिण्डशब्दस्तत्र तत्र साक्षात्परम्परया वा एकशरीरावयवान्वयो वेदितव्यः । यद्येवं मातामहादीनामपि 'दशाहं शावमाशौचं सपिण्डेषु विधीयते' इत्यविशेषेण प्राप्नोति । स्यादेतत् यदि तत्र 'प्रतानामितरे कुर्युः' इत्यादिविशेषवचनं न स्यात् । अतश्च सपिण्डेषु यत्र विशेषवचनं नास्ति तत्र 'दशाहं शावमाशौचम्' इत्येतद्वचनमवतिष्ठते । अवश्यं चैकशरीरावयवान्वयेन सापिण्ड्यं वर्णनीयम् । 'आत्मा हि जज्ञ आत्मनः' इत्यादिश्रुतेः । तथा 'प्रजामनु प्रजायसे' इतिच । स एवायं विरूढः प्रत्यक्षेणोपलभ्यते इत्यापस्तम्बवचनाच्च । तथा गर्भोपनिषदि - ' एतत् पादकौशिकं शरीरं त्रीणि पितृतस्त्रीणि मातृतोऽस्थिस्नायुमजानः पितृतस्वमासरुधिराणि मातृतः ' इति तत्रतत्रावयवान्वयप्रतिपादनात् । निर्वाप्यपिण्डान्वयेन तु सापिण्ड्ये( ऽङ्गीक्रियमाणे ) मातृसंताने भ्रातृपितृव्यादिषु च सापिण्ड्यं न स्यात् । समुदायशक्त्यङ्गीकारेण रूढिपरिग्रहेऽवयवशक्तिस्तत्रतत्रावगम्यमाना परित्यक्ता स्यात् । (सरस्ववयवार्थेषु योऽन्यत्रार्थे प्रयुज्यते तत्रानन्यगतित्वेन समुदायः प्रसिद्ध्यति ।) परम्परयैकशरीरावयवान्वयेन तु सापिण्ड्ये यथा नातिप्रसङ्गस्तथा वक्ष्यामः । यवीयसीं वयसा प्रेमाणतश्च म्यूनां उद्वहेत्परिणयेत्स्वगृह्येोक्तविधिना ॥ ५२ ॥
विशेषान्तराण्याह
Acharya Shri Kailassagarsuri Gyanmandir
अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम् ।
1
I
अरोगिणीं अचिकित्सनीय व्याध्यनुपसृष्टाम् । भ्रातृमतीं पुत्रिकाकरणशङ्कानि - वृत्तये । अनेनापरिभाषितापि पुत्रिका भवतीति गम्यते । भसमानार्षगोत्रजां ऋषेरिदमा नाम प्रवर इत्यर्थः । गोत्रं वंशपरम्पराप्रसिद्धं । भाषं च गोत्रं च आर्षगोत्रे । समाने आर्षगोत्रे यस्यासौ समानार्षगोत्रस्तस्माज्जाता समानार्षगोत्रजा न समानार्षगोत्रजा असमानार्षगोत्रजा ताम् । गोत्रप्रवरौ च पृथक्पृथक्पर्युदासनिमित्तम् । तेनासमानार्षजामसमान गोत्रजामिति । तथाच 'असमानप्रवरैविवाहः' इति गौतमः । तथा 'असपिण्डा च या मातुरसपिण्डा च या पितुः । सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने ॥' इति ( ३।५ ) मनुः । तथा मातृगोत्रामध्यपरिणेयां केचिदिच्छन्तिं । मातुलस्य सुतामूढा मातृगोत्रां तथैव च । समानप्रवरां चैव गत्वा चान्द्रायणं चरेत् ॥' इति प्रायश्चित्तस्मरणात् । अत्र चाsसपिण्डामित्यनेन पितृष्वसृमातृष्वस्त्रादिदुहितृनिषेधः । तथा भसगोनामित्यनेनासपिण्डाया अपि भिन्नसन्तानजायाः समानगोत्राया निषेधः । तथा असमानप्रवरामित्यनेनाप्यसपिण्डाया असगोत्राया अपि समानप्रवराया निषेधः । तथाच असपिण्डामित्येतत्सार्ववर्णिकम् । सर्वत्र सापिण्ड्यसद्भावात् । असमाना
१ पिण्डनिर्वापणयुक्त्या निर्वाप्यसपिण्डा. ख. २ भ्रातृपुत्रादिषु ख भ्रातृव्यपितृव्या. ग. ३ . पुस्तकेऽधिकमिदं. ४ प्रमाणेन च क. ५ असमानगोत्रजां असमानार्षजामित्यर्थः ख. ६ असगोत्रा च ख. ग. ७ अत्र क. पुस्तके 'सगोत्रां मातुरप्येके नेच्छन्त्युद्वाहकर्मणि । जम्मनाम्नोर विज्ञाने दहेदविशङ्कितः ॥' इति व्यासः इति विशेषः ८ त्यक्त्वाख.
For Private And Personal Use Only