________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८४
याज्ञवल्क्यस्मृतिः
[प्रायश्चित्ताध्यायः
असत्यभाषणं शूगसेवनमित्यपात्रीकरणानि । पक्षिणां जलचराणां जलजानां च घातनं कृमिकीटघातनं मद्यानुगतभोजनमिति मलावहानि । यदनुक्तं तत्प्रकीर्णकम्' इति ॥ कात्यायनेन तु महापातकसमानां विष्णुनाप्युपपातकत्वेनोकानां पातकसंज्ञा दर्शिता–'महापापं चातिपापं तथा पातकमेव च । प्रासनिकं चोपपापमित्येवं पञ्चको गणः ॥' इति ॥ ननूपपातकादीनां कथं पातकत्वं पतनहेतुत्वाभावात् । यदि तेषामपि पतनहेतुत्वं तर्हि मातृपितृयोनिसंबद्धाङ्ग इत्यादिपरिगणनमनर्थकम् । अथैवमुच्यते । यद्यपि महापातकतत्समेविव सद्यःपातित्यहेतुत्वं नास्ति तथाप्यभ्यासापेक्षया पातित्यहेतुत्वमविरुद्धम् । निन्दितकर्माभ्यासादिति गौतमवचनादिति । मैवम् । अभ्यासस्थानिरूप्यमाणत्वात् द्विः शतकृत्वो वेति तत्राविशेषेऽङ्गीक्रियमाणे योऽपि द्विर्दिवा स्वपिति यः शतकृत्वो वा गोवधं करोति तयोरविशेषेण पातित्यं स्यात् । अत्रोच्यते । यत्रार्थवादे प्रत्यवायविशेषः श्रूयते प्रायश्चित्तबहुत्वं वा तस्मिन्निन्दितकर्मणि यावत्यभ्यस्यमाने महापातकतुल्यत्वं भवति तावानभ्यासः पातित्यहेतुः । दिवास्वमादौ तु सहस्रकृत्वोऽप्यभ्यस्यमाने न महापातकतुल्यत्वं भवतीति न तत्र पातित्यमतो युक्तमुपपातकादेरभ्यासापेक्षया पतनहेतुत्वम् ॥ २३४-२४२ ॥
एवं व्यवहारार्थं संज्ञाभेदसहितं प्रायश्चित्तनिमित्तपरिगणनं कृत्वा नैमित्तिकानि प्रदर्शयितुमाह
शिरकपाली ध्वजवान्भिक्षाशी कर्म वेदयन् ।
ब्रह्महा द्वादशाब्दानि मितभुक्शुद्धिमाप्नुयात् ॥ २४३ ॥ शिरसः कपालमस्यास्तीति शिरःकपाली । तथा ध्वजवान् (१९७२)'कृत्वा शवशिरोध्वजम्' इति मनुस्मरणात् । अन्यच्छिरःकपालं दण्डाग्रसमा. रोपितं ध्वजशब्दवाच्यं गृह्णीयात् । तञ्च कपालं स्वव्यापादितब्राह्मणशिरःसंबन्धि ग्राह्यम् । 'ब्राह्मणो ब्राह्मणं घातयित्वा तस्यैव शिरःकपालमादाय तीर्थान्यनुसंचरेत्' इति शातातपस्मरणात् । तदलाभेऽन्यस्यैव ब्राह्मणस्य ग्राह्यम् । एतदु. भयं पाणिनैव ग्राह्यम् । 'खट्वाङ्गकपालपाणिः' इति गौतमस्मरणात् । खट्दा.
शब्देन दण्डारोपितशिरःकपालात्मको ध्वजो गृह्यते न पुनः खट्टैकदेशः। 'महोक्षः खट्वाङ्गं परशुः' इत्यादिव्यवहारेषु तस्यैव प्रसिद्धेः । एतच्च कपालधारणं चिह्वार्थ न पुनर्भोजनार्थ मिक्षार्थ वा।-'मृन्मयकपालपाणिर्भिक्षायै ग्राम प्रविशेत्' इति गौतमस्मरणात् । तथा वनवासिना च तेन भवितव्यम् । (११॥ ७२)-'ब्रह्महा द्वादशाब्दानि कुटीं कृत्वा वने वसेत्' इति मनुस्मरणात् । ग्रामसमीपादौ वा । (मनुः १११७८)-'कृतवापनो वा निवसेवामान्ते गोवजेऽपि वा । आश्रमे वृक्षमूले वा गोब्राह्मणहिते रतः ॥' इति तेनैवोक्तत्वात् । कृतवापनो वेति विकल्पामिधानाजटी वेति लक्ष्यते । अतएव संवर्तः–'प्र. रहा द्वादशाब्दानि बालवासा जटी ध्वजी' इति । तथा भिक्षाशनशीलश्व भ.
१ नुपातकत्वेन ख. २ ब्रह्महा द्वादशसमा इति पाठः. ३ सर्वभूतहिते ग. ४ चीरवासा जटी ख.
For Private And Personal Use Only