________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८२
याज्ञवल्क्यस्मृतिः।
[प्रायश्चित्ताध्यायः
वश्यकत्ववचनान्नित्यश्रुतयोऽपि साधिकारित्वाविशेषादाधानस्य प्रयोजिका इति स्मृतिकाराणामभिप्रायो लक्ष्यत इत्यदोषः । तथा अपण्यस्य लवणादेर्विक्रयः । सहोदरस्य ज्येष्ठस्य तिष्ठतः कनीयसो भ्रातुर्दाराग्निसंयोगः परिवेदनम् । पणपू. र्वाध्यापकादध्ययनग्रहणम् । पणपूर्वाध्यापनम् । परदारसेवनं गुरुदारतत्समव्यतिरेकेण । पारिवित्त्यं कनीयसि कृतविवाहे ज्येष्ठस्य विवाहराहित्यम् । वाधुष्यं प्रतिषिद्धवृद्ध्युपजीवनम् । लवणक्रिया लवणस्योत्पादनम् । स्त्रिया वधः अबा. ह्मण्या अप्यात्रेयीव्यतिरेकेण । शूद्रवधः । अदीक्षितविक्षत्रियवधः । निन्दितार्थोपजीवनमराजस्थापितार्थोपजीवनम् । नास्तिक्यं नास्ति परलोक इत्याद्यभिनिवेशः । व्रतलोपो ब्रह्मचारिणः स्त्रीप्रसङ्गः । सुतानामपत्यानां विक्रयः । धान्यं ब्रीह्यादि, कुप्यमसारद्रव्यं पुसीसादि, पशवो गवादयस्तेषामपहरणम् । 'गोवधो व्रात्यता स्तेय'मित्यनेन स्तेयग्रहणेनैव सिद्धे पुनर्धान्यकुप्यादिस्तेयग्रहणं नित्यार्थम् । अतो धान्यादिव्यतिरिक्तद्रव्यस्तेये नावश्यमेतदेव प्रायश्चित्त. मपितु ततो न्यूनमपि भवत्येव । एतेन बान्धवत्यागग्रहणेनैव सिद्धे पुनः पित्रादित्यागग्रहणं व्याख्यातम् । अयाज्यानां जातिकर्मदुष्टानां शूदवात्यादीनां याजनम् । पितृमातृसुतानामपतितानां त्यागो गृहान्निष्कासनम् । तडागस्यारामस्य चोद्यानोपवनादेर्विक्रयः । कन्याया संदूषणमङ्गुल्यादिना योनिविदारणं नतु भोगः । तस्य सखिभार्याकुमारीष्विति गुरुतल्पगसमत्वस्योक्तत्वात् । परिविन्दकयाजनं तस्य च कन्याप्रदानम् । कौटिल्यं गुरोरन्यत्र । गुरुविषयस्य तु कौटिल्यस्य सुरापानसमत्वमुक्तम् । पुनव्रतलोपग्रहणमशिष्टाप्रतिषिद्धेष्वपि श्रीहरिचरणकमलप्रेक्षणात् प्राक् ताम्बूलादिकं न भक्षयामीत्येवंरूपेषु प्राप्त्यर्थं नतु स्नातकव्रतप्रात्यर्थम् । तत्र (११।२०३)-'नातकव्रतलोपे च प्रायश्चित्तमभोजनम्' इति मनुना लघुप्रायश्चित्तस्य प्रतिपादितत्वात् ॥ तथात्मार्थं च पाकलक्षणक्रियारम्भः । (मनुः ३।११८)-'अपं स केवलं भुते यः पचत्यात्मकारणात्' इति तस्यैव प्रतिषिद्धत्वात् । क्रियामानविषयत्वे तु प्रतिषेधकल्पनाया गौरवं स्यात् । मद्यपायाः स्त्रियाः जायाया अपि निषेवणमुपभोगः । स्वाध्यायत्यागो व्याख्यातः । अग्नीनां च श्रौतस्मार्तानां त्यागः । सुतत्याग संस्काराद्यकरणम् । बान्धवानां पितृव्यमातुलादीनां त्यागः सति विभवे अपरिरक्षणम् । पाकादिदृष्टप्रयोजन सिद्ध्यर्थमाद्रुमच्छेदो न त्वाहवनीयपरिरक्षणार्थमपि । स्त्रिया हिंसया औषधेन च वर्तनं जीवनं स्त्रीहिंसौषधजीवनम् । तत्र स्त्रीजीवनं नाम भायाँ पण्यभावेन प्रयोज्य तल्लब्धोपजीवनम्, स्त्रीधनेनोपजीवनं वा । हिंसया जीवनं प्राणिवधेन जीवनम् । औषधजीवनं वशीकरणादिना । हिनयन्त्रस्य तिलेक्षुपीडाकरस्य प्रवर्तनम् । व्यसनानि मृगयादीन्यष्टादश । आत्मविक्रयो
१ साधिकारत्वाविशेषा ङ. २ वृत्युपजीवित्वम् ङ. ३ प्रतिषेधे ङ. ४ करणेन ङ. ५ मृगयादीन्यष्टादश व्यसनानि मनुस्मृतौ (७ श्लो. ४७-५३) 'मृगयाऽक्षा दिवास्वापः परिवादः स्त्रियो मदः । तौर्यत्रिकं वृथाट्या च कामजो दशको गणः ॥ पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् । वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टकः ॥ द्वयोरप्येतयोर्मूलं यं सर्वे कवयो
For Private And Personal Use Only