________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५८
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः विप्लुतः सिद्धमात्मानमसिद्धोऽपि हि मन्यते ॥ १५२ ॥ योऽसौ पूर्वोक्त आत्मा विप्लुतोऽहंकारदूषितः स सकलकर्मसु फलमस्ति न वेति संदिग्धमतिर्भवति । तथाऽसिद्धोऽप्यकृतार्थोऽपि सिद्धमेव कृतार्थमात्मानं मन्यते ॥ १५२ ॥
मम दाराः सुतामात्या अहमेषामिति स्थितिः।
हिताहितेषु भावेषु विपरीतमतिः सदा ॥ १५३ ॥ किंच । तस्य विप्लुतमतेर्मम कलत्रपुत्रप्रेष्यादयोऽहमेषामित्यतीव ममताकुलस्थितिर्भवति । तथा हिताहितकरे कार्यप्रकरे स विप्लुतमतिविपरीतमतिः सदा भवेत् ॥ १५३॥
ज्ञेयज्ञे प्रकृतौ चैव विकारे वाऽविशेषवान् । अनाशकानलाघातजलप्रपतनोद्यमी ॥ १५४ ॥ एवंवृत्तोपविनीतात्मा वितथाभिनिवेशवान् ।
कर्मणा द्वेषमोहाभ्यामिच्छया चैव बध्यते ॥ १५५ ॥ किंच । ज्ञेयं जानातीति ज्ञेयज्ञस्तस्मिनात्मनि प्रकृतौ चात्मनो गुणसाम्यावस्थायां विकारे चाहंकारादावविशेषवान् विवेकानभिज्ञो भवति। तथानशनहुताशनाम्बुप्रवेशविषाशनादिषु विप्लववशात्कृतप्रयत्नो भवेत् । एवं नानाप्रकाराकार्यप्रवृत्तोऽविनीतात्माऽसंयतात्मा असत्कार्याभिनिवेशयुक्तः सन् तत्कृतकर्मजातेन रागद्वेषाभ्यां मोहेन च बध्यते ॥ १५४ ॥ १५५ ॥ शरीरग्रहणद्वारेण कथं पुनस्तस्य विनम्भो भवतीत्यत आह
आचार्योपासनं वेदशास्त्रार्थेषु विवेकिता। तत्कर्मणामनुष्ठानं सङ्गः सद्भिर्गिरः शुभाः ॥ १५६ ॥ ख्यालोकालम्भविगमः सर्वभूतात्मदर्शनम् । त्यागः परिग्रहाणां च जीर्णकाषायधारणम् ॥ १५७ ॥ विषयेन्द्रियसंरोधस्तन्द्रालस्यविवर्जनम् । शरीरपरिसंख्यानं प्रवृत्तिष्वघदर्शनम् ॥ १५८ ॥ नीरजस्तमसा सत्वशुद्धिनिःस्पृहता शमः ।
एतैरुपायैः संशुद्धः सत्वयोग्यमृती भवेत् ॥ १५९ ॥ विद्यार्थमाचार्यसेवा । वेदान्तार्थेषु पातञ्जलादियोगशास्त्रार्थेषु च विवेकित्वम् । तत्प्रतिपादितध्यानकर्मणामनुष्ठानम् । सत्पुरुषसङ्गः प्रियहितवचनत्वम् । लल
For Private And Personal Use Only