________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतिधर्मप्रकरणम् ४] मिताक्षरासहिता ।
३५१
तया तालादिभङ्गभयाच्चित्तवृत्तेरात्मैकाग्रतायाः सुकरस्वादल्पायासेनैव मुक्तिपथं नियच्छति प्राप्नोति ॥ ११५ ॥
चित्तविक्षेपाद्यन्तरायहतस्य गीतज्ञस्य फलान्तरमाहगीतज्ञो यदि योगेन नाप्नोति परमं पदम् । रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते ॥ ११६ ॥
गीतज्ञो यदि कथंचिद्योगेन परमं पदं नामोति तर्हि रुद्रस्य सचिवो भूत्वा तेनैव सह मोदते क्रीडति ॥ ११६ ॥
पूर्वोक्तमुपसंहरति
अनादिरात्मा कथितस्तस्यादिस्तु शरीरकम् ।
आत्मनस्तु जगत्सर्वं जगतश्चात्मसंभवः ॥ ११७ ॥
प्रागुक्तरीत्या अनादिरारमा क्षेत्रज्ञस्तस्य च शरीरग्रहणमेवादिरुद्रवः कथितः 'अजः शरीरग्रहणा' दित्यत्र । परमात्मनश्च सकाशात्पृथिव्यादिसकलभुवनोद्भवः तस्मादुद्भूताच्च पृथिव्यादिभूतसंघाताजीवानां स्थूलशरीरतया संभवश्व कथितः 'सर्गादौ स यथाकाश' मित्यादिना ॥ ११७ ॥
एतदेव प्रश्नपूर्वकं विवृणोति -
कथमेतद्विमुह्यामः सदेवासुरमानवम् ।
जगदुद्भूतमात्मा च कथं तस्मिन्वदस्व नः ।। ११८ ॥
यदेतत्सकलसुरासुरमनुजादिसहितं जगत्तदात्मनः सकाशात्कथमुत्पन्नं, आत्मा च तस्मिन् जगति कथं तिर्यङ्नरसरीसृपादिशरीरभाग्भवतीत्येतस्मिन्नर्थे चिमु ह्यामः । अतो मोहापनुत्यर्थमस्माकं विस्तरशो वदस्व ॥ ११८ ॥
एवं मुनिमि: पृष्टः प्रत्युत्तरमाहमोहजालमपास्येह पुरुषो दृश्यते हि यः । सहस्रकरपनेत्रः सूर्यवर्चाः सहस्रकः ॥ ११९ ॥ स आत्मा चैव यज्ञश्च विश्वरूपः प्रजापतिः । विराजः सोऽनरूपेण यज्ञत्वमुपगच्छति ॥ १२० ॥
१ भूत्वा सह तेनैव कङ.
इह जगति यदिदं स्थूलकलेवरादावनात्मन्यात्माभिमानरूपं मोहजालं तदपास्य तद्व्यतिरिक्तो यः पुरुषोऽनेककरचरणलोचनः सूर्यवर्चाः अनन्तरश्मिः स हस्रक: बहुशिरा दृश्यते । एतच्च तत्तद्गोचरशक्त्याधारतयोच्यते । तस्य साक्षात्कारादि संबन्धाभावात् । स एवात्मा यज्ञः प्रजापतिश्च । यतोऽसौ विश्वरूपः सर्वात्मकः । वैश्वरूयमेव कथमिति चेत्। यस्मादसौ विराजः पुरोडाशाद्यन्न
२ संभूताश्च पृथिव्यादिभूतसंघाताः जीवानां ङ.
For Private And Personal Use Only