________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०८
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः विध्यते । संस्पर्श सूतिकायास्तु स्नानमेव विधीयते ॥' इति । यस्मिन्दिवसे कुमारजननं तदहन प्रदुष्येत । तन्निमित्तदानाद्यधिकारापहारकृन्न भवतीत्यर्थः । यसात्तस्मिन्नहनि पूर्वेषां पित्रादीनां पुत्ररूपेण जन्म उत्पत्तिस्तस्मात्तदहर्न प्रदुष्येत ॥ तथाच वृद्धयाज्ञवल्क्येनोक्तम्-'कुमारजन्मदिवसे विप्रैः कार्यः प्रतिग्रहः । हिरण्यभूगवावाजवासःशय्यासनादिषु ॥ तत्र सर्व प्रतिग्राह्यं कृतान्नं नतु भक्षयेत् । भक्षयित्वा तु तन्मोहाद्विजश्वान्द्रायणं चरेत् ॥' इति ॥ व्यासेनाप्यत्र विशेष उक्तः-'सूतिकावासनिलया जन्मदा नाम देवताः । तासां यागनिमित्तं तु शुचिर्जन्मनि कीर्तिता ॥ प्रथमे दिवसे षष्ठे दशमे चैव सर्वदा । त्रिष्वेतेषु न कुर्वीत सूतकं पुत्रजन्मनि ॥' मार्कण्डेयेनाप्युक्तम्-'रक्षणीया तथा षष्ठी निशा तत्र विशेषतः । रात्री जागरणं कार्य जन्मदानां तथा बलिः ॥ पुरुषाः शस्त्रहस्ताश्च नृत्यगीतैश्च योषितः । रात्रौ जागरणं कुर्युर्दशम्यां चैव सूतके ॥' इति ॥ १९ ॥ __ आशौचमध्ये पुनर्जनने मरणे वा जाते 'प्रतिनिमित्तं नैमित्तिकमावर्तते' इति न्यायेन पुनर्दशाहाद्याशौचप्राप्तौ तदपवादमाह
अन्तरा जन्ममरणे शेषाहोभिर्विशुद्ध्यति । वर्णापेक्षया वयोवस्थापेक्षया वा यस्य यावानाशौचकालस्तदन्तरा तत्समस्य ततो न्यूनस्य वाशौचस्य निमित्तभूते जनने मरणे वा जाते पूर्वाशौचावशिष्टैरेवाहोभिर्विशुद्ध्यति । न पुनः पश्चादुत्पन्न जननादिनिमित्तं पृथक्पृथगाशौचं कार्यम् ॥ यदा पुनरल्पाद्वर्तमानाशौचाद्दीर्घकालनाशौचमन्तरा पतति तदा न पूर्वशेषेण शुद्धिः। यथाहोशना-'स्वल्पाशौचस्य मध्ये तु दीर्घाशौचं भवेद्यदि । न पूर्वेण विशुद्धिः स्यात्स्वकालेनैव शुद्ध्यति ॥' इति । यमोऽप्याह-'अधवृद्धिमदाशौचं पश्चिमेन समापयेत्' इति । अत्र चान्तरा जन्ममरणे इति ययप्यविशेषेणाभिहितं तथापि न सूतकान्तर्वर्तिनः शावस्य पूर्वाशौचशेषेण शुद्धिः । यथाहाङ्गिराः-'सूतके मृतकं चेत्स्यान्मृतके त्वथ सूतकम् । तत्राधिकृत्य मृतकं शौचं कुर्यान्न सूतकम् ॥' इति । तथा षट्त्रिंशन्मतेऽपि-'शावाशौचे समुत्पन्ने सूतकं तु यदा भवेत् । शावेन शुद्ध्यते सूतिर्न सूतिः शावशोधिनी ॥' इति । तस्मान सूतकान्तःपातिनः शीवाशौचस्य पूर्वशेषेण शुद्धिः किंतु शा. चान्तःपातिन एव सूतकस्य । तथा सजातीयान्तःपातित्वेऽपि शावस्य कचित्पू. वैशेषेण शुद्धेरपवादः स्मृत्यन्तरे दर्शितः-'मातर्यग्रे प्रमीतायामशुद्धौ म्रियते पिता । पितुः शेषेण शुद्धिः स्थान्मातु कुर्यात्तु पक्षिणीम् ॥' इति । अयमर्थःमातरि पूर्व मृतायां तन्निमित्ताशौचमध्ये यदि पितुरुपरमः स्यात्तदा न पूर्वशे. षेण शुद्धिः किंतु पितुः प्रयाणनिमित्ताशौचकालेनैव शुद्धिः कार्या । तथा पितुः प्रयाणनिमित्ताशौचमध्ये मातरि स्वर्यातायामपि न पूर्वशेषमानाच्छुद्धिः किंतु पूर्वाशौचं समाप्योपरि पक्षिणीं क्षिपेत्' इति ॥ तथाऽऽशौचसन्निपातकालविशेष. १ अहोवृद्धिमत् ख. २ शावस्य ख.
For Private And Personal Use Only