SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आशौचप्रकरणम् १] मिताक्षरासहिता। पिण्डयज्ञावृता देयं प्रेतायानं दिनत्रयम् ॥ १६ ॥ क्रीतमयाचितलब्धं वा अशनं येषां ते क्रीतलब्धाशनाः । भवेयुरिति शेषः । क्रीतलब्धाशननियमात्तदलाभेऽनशनमात्सिद्धं भवति । अतएव वसिष्ठः'गृहान्वजित्वा अधःप्रस्तरे श्यहमनश्नन्त आसीरन् क्रीतोत्पन्नेन वर्तेरन्' इति । अधःप्रस्तर आशौचिनां शयनासनार्थस्तृणमयः प्रस्तरः । ते च सपिण्डा भूमावेव पृथक्पृथक् शयीरन् न खट्टादौ ॥ मनुनाप्यत्र विशेषो दर्शितः (५।७३) -'भक्षारलवणानाः स्युनिमजेयुश्च ते व्यहम् । मांसाशनं च नाभीयुः शयीरंश्व पृथक् क्षितौ ॥' इति । तथा गौतमेनापि विशेष उक्तः–'अधःशय्याशायिनो ब्रह्मचारिणः शवकर्मिणः' इति । तथा पिण्डपितृयज्ञप्रक्रियया प्राचीनावीतित्वादिरूपया प्रेताय दिनत्रयं पिण्डरूपमन्नं तूष्णीं क्षितौ देयम् । यथाह मरीचिः-'प्रेतपिण्डं बहिर्दद्याद्दर्भमन्त्रविवर्जितम् । प्रागुदीच्यां चरुं कृत्वा नातः प्रय. तमानसः ॥' इति । दर्भमत्रविवर्जितत्वमनुपनीतविषयम् । 'असंस्कृतानां भूमौ पिण्डं दद्यारसंस्कृतानां कुशेषु' इति प्रचेतःस्मरणात् ॥ तथा कर्तृनिय. मश्च गृह्यपरिशिष्टाद्विज्ञेयः-'असगोत्रः सगोत्रो वा यदि स्त्री यदि वा पुमान् । प्रथमेऽहनि यो दद्यात्स दशाहं समापयेत् ॥' इति ॥ तथा द्रव्यविनियमश्च शुनःपुच्छेन दर्शितः- 'शालिना सक्तुभिर्वापि शाकैर्वाप्यथ निर्वपेत् । प्रथमेऽहनि यद्व्यं तदेव स्थाद्दशाहिकम् ॥ तूष्णीं प्रसेकं पुष्पं च दीपं धूपं तथैव च॥ इति ॥ पिण्डश्च पाषाणे देयः । 'भूमौ माल्यं पिण्डं पानीयमुपले वा दद्युः' इति शङ्खस्मरणात् । नच दद्युरिति बहुवचनेनोदकदानवत्सर्वैः पिण्डदानं कार्यमित्याशङ्कनीयं । किंतु पुत्रेणैव कार्यम् । तदभावे प्रत्यासन्नेन सपिण्डानामन्यतमेन तदभावे मातृसपिण्डादिना कार्यम् । 'पुत्राभावे सपिण्डा मातृ. सपिण्डाः शिप्याश्च दद्युस्तदभावे ऋत्विगाचायौं' इति गौतमस्मरणात् । पुत्रबहुत्वे पुनज्येष्ठेनैव कार्यम् । 'सर्वैरनुमतिं कृत्वा ज्येष्ठेनैव तु यत्कृतम् । द्रव्येण चाविभक्तेन सवैरेव कृतं भवेत् ॥' इति मरीचिस्मरणात् ॥ पिण्डसंख्यानि यमश्च-ब्राह्मणस्य दश पिण्डाः क्षत्रियस्य द्वादशैवेति । एवमाशौचदिवससंख्यया विष्णुनाभिहितम्-'यावदाशौचं प्रेतस्योदकं पिण्डमेकं च दद्युः' इति ॥ तथा स्मृत्यन्तरेऽपि-'नवनिर्दिवसर्दद्यान्नव पिण्डान्समाहितः । दशमं पिण्डमुत्सृज्य रात्रिशेषे शुचिर्भवेत् ॥' इति शुचित्ववचनमपरेछुः क्रियमाणश्राद्धार्थब्राह्मणनिमन्त्रणाभिप्रायेण । योगीश्वरेण तु पिण्डत्रयदानमभिहितं अनयोश्च गुरुलघुकल्पयोरुदकदानविषयोक्ता व्यवस्था विज्ञेया । अत्रापरः शातातपीयो विशेष:--'आशौचस्य तु हासेऽपि पिण्डान्दद्याद्दशैव तु' इति ॥ त्रिरात्राशौ• चिनां पुनः पारस्करण विशेषो दर्शितः-'प्रथमे दिवसे देयास्त्रयः पिण्डाः समाहितैः । द्वितीये चतुरो दद्यादस्थिसंचयनं तथा ॥ त्रीस्तु दद्यात्तृतीयेऽह्नि वस्त्रादि क्षालयेत्तथा' इति ॥ १६ ॥ १रिणः सर्व इति क. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy