________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९८
याज्ञवल्क्यस्मृतिः।
[प्रायश्चित्ताध्यायः।
नरशिरस्कपालादि श्रुतिबाह्यलिङ्गधारणं पाखण्डं तद्विद्यते येषां ते पाखण्डिनः। भनाश्रिताः अधिकारे सत्यप्यकृताश्रमविशेषपरिग्रहाः । स्तेनाः सुवर्णाद्युत्तमद्रव्यहारिणः । भर्तृभ्यः पतिघातिन्यः । कामगाः कुलटाः । आदिग्रहणारस्वगर्भब्राह्मणघातिन्यो गृह्यन्ते । सुराप्यो यासां या सुरा प्रतिषिद्धा तत्पानरताः । आत्मत्यागिन्यः विषाग्युदकोद्वन्धनाचैरात्मानं यास्त्यजन्ति । एते पाखण्ड्यादयः 'त्रिरात्रं दशरानं वा' इति वक्ष्यमाणस्याशौचस्योदकदानाद्यौर्ध्वदेहिकस्य च भाजना न भवन्ति । भाजयन्तीति भाजनाः सपिण्डादीनामाशौचादिनिमित्तभूता न भव. न्ति । अतस्तन्मरणे सपिण्डैरुदकदानादि न कार्यमित्येतत्प्रतिपादनपरं वचनम् । अत्र च सुराप्य इत्यादिषु लिङ्गमविवक्षितम् । -'लिङ्ग च वचनं देशः कालोऽयं कर्मणः फलम् । मीमांसाकुशलाः प्राहुरनुपादेयपञ्चकम् ॥' इत्यनुपादेयगतत्वात् । एतच्च बुद्धिपूर्वविषयम् । यथाह गौतमः-'प्रायोऽनाशकशस्त्राग्निविपोदकोद्वन्धनप्रपतनैश्चेच्छताम्' इति । प्रायो महाप्रस्थानम् । अनाशकमनशनम् । गिरिशिखरादवपातः प्रपतनम् । अत्र चेच्छतामिति विशेषणोपादानात्प्रमादकृत्ये दोषो नास्तीत्यवगन्तव्यम् ।-'अथ कश्चित्प्रमादेन म्रियेतान्युदकादिभिः । तस्याशौचं विधातव्यं कर्तव्या चोदकक्रिया ॥' इति अङ्गिरःस्मरणात् ॥ तथा मृत्युविशेषादपि आशौचादिनिषेधः-'चाण्डालादुदकात्सद्राह्मणाद्वैधुता. दपि । दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मिणाम् ॥ उदकं पिण्डदानं च प्रेतेभ्यो यत्प्रदीयते । नोपतिष्ठति तत्सर्वमन्तरिक्षे विनश्यति ॥' इति । एतदपीच्छापू. र्वमात्महननविषयम् । गौतमवचनेनेच्छापूर्वकमेवोदकेन हतस्याशौचादिनिषेधस्योक्तत्वात् । अत्रापि 'चण्डालादुदकासादिति तत्साहचर्यदर्शनाद्बुद्धिपूर्वविषयत्वनिश्चयः । अतो दर्पादिना चण्डालादीन्हन्तुं गतो यस्तैारितस्तस्यायं सर्वत एवात्मानं गोपायेदिति विध्यतिक्रमनिमित्तः पिण्डदानादिनिषेधः । एवं दुष्टदंष्ट्रयादिग्रहणार्थमाभिमुख्येन दर्पाद्गच्छतो मरणेऽप्ययं निषेध इत्यनुसंधेयम् । अयं चाशौचप्रतिषेधो दशाहादिकालावच्छिन्नस्य । 'हतानां नृपगोविगैरन्वक्षं चात्मघातिनाम्' इति सद्यःशौचस्य वक्ष्यमाणत्वात् । तथा दाहादिकमप्येषां न कार्यम्-'नाशौचं नोदकं नाश्रु न दाहाद्यन्त्यकर्म च । ब्रह्मदण्डहतानां च न कुर्यात्कटधारणम् ॥' इति यमस्मरणात् । ब्रह्मदण्डहता ब्राह्मणदण्डहताः । प्रेतवहनसाधनं खट्टादि कटशब्देनोच्यते । न चाहिताग्निमग्निभिर्दहन्ति यज्ञपात्रैश्चेत्येतत् श्रुतिविहिताग्नियज्ञपात्रादिप्रतिपत्तिलोपप्रसङ्गात् अयं स्मार्तो दाहादिनिषेधो विप्रादिहताहिताग्निविषयं नास्कन्दतीत्याशङ्कनीयम् । यतश्चण्डालादिहताहिताग्निसंबन्धिनामग्मियज्ञपात्राणां स्मृत्यन्तरे प्रतिपत्त्यन्तरं विधीयते। 'वैतानं प्रक्षिपेदप्सु आवसथ्यं चतुष्पथे। पात्राणि तु दहेदग्नौ यजमाने वृथा मृते॥ इति । तथा तच्छरीरस्यापि प्रतिपत्त्यन्तरमुक्तम्-'आत्मनस्त्यागिनां नास्ति पतितानां तथा क्रिया । तेषामपि तथा गङ्गातोये संस्थापनं हितम् ॥' इति स्मरणात् । तस्मादविशेषेण सर्वेषां दहनादिनिषेधः । अतः स्नेहादिना निषेधातिक्रमे प्राय. १ इदं पधं क. ग. पुस्तकयो स्ति.
For Private And Personal Use Only