________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्त्रीसंग्रहणप्रकरणम् २४ ] मिताक्षरासहिता ।
२८७
स्थायाः साधारणत्वम् । पित्रादिपरिक्षितायाः कन्याया एव दानोपदेशात् । दात्रभावेऽपि तथाविधाया एव स्वयंवरोपदेशात् । नच दासीभावात्स्वधर्माधिकारच्युतिः। पारतत्र्यं हि दास्यं न स्वधर्मपरित्यागः । नापि वेश्या साधारणी वर्णानुलोमजव्यतिरेकेण गम्यजात्यन्तरासंभवात् । तदन्तःपातित्वे च पूर्ववदे. वागम्यत्वम् । प्रतिलोमजत्वे तु तासां नितरामगम्यत्वम् । अतः पुरुषान्तरोपभोगे तासां निन्दितकर्माभ्यासेन पातित्यात् । पतितसंसर्गस्य निषिद्धत्वाच्च न सकलपुरुषोपभोगयोग्यत्वम् । सत्यमेवम् । किं त्वत्र स्वैरिण्याद्युपभोगे पित्रादिरक्षकराजदण्डभयादिदृष्टदोषाभावाद्गम्यत्ववाचोयुक्तिः। दण्डाभावश्चावरुद्धासु दासीविति नियतपुरुषपरिग्रहोपाधितो दण्डविधानात्तदुपाधिरहितास्वर्थादवगम्यते । स्वैरिण्यादीनां पुनर्दण्डाभावो विधानाभावात् ॥ 'कन्यां भजन्तीमुत्कृष्टां न किंचिदपि दापयेत् ॥' इति लिङ्गनिदर्शनाच्चावगम्यते । प्रायश्चित्तं तु स्वधमस्खलननिमित्तं गम्यानां गन्तॄणां चाविशेषाद्भवत्येव । यत्पुनर्वेश्यानां जात्यन्तरासंभवेन वर्णान्तःपातित्वमनुमानादुक्तम्- 'वेश्या वर्णानुलोमाद्यन्तःपा. तिन्यो मनुष्यजात्याश्रयत्वात् ब्राह्मणादिवत्' इति । तन्न । तत्र कुण्डगोलकादिभिरनैकान्तिकत्वात् । अतो वेश्याख्या काचिजातिरनादिर्वेश्यायामुत्कृष्टजातेः समानजातेर्वा पुरुपादुत्पन्ना पुरुषसंभोगवृत्तिर्वेश्येति ब्राह्मण्यादिवल्लोकप्रसिद्धिबलादभ्युपगमनीयम् । नच निर्मूलेयं प्रसिद्धिः । स्मर्यते हि स्कन्दपुराणे-'पञ्चचूडा नाम काश्चनाप्सरसस्तत्सन्ततिर्वेश्याख्या पञ्चमी जातिः' इति । अतस्तासां नियतपुरुषपरिणयन विधिविधुरतया समानोत्कृष्टजातिपुरुषाभिगमने नादृष्टदोषो नापि दण्डः । तासु चानवरुद्धासु गच्छतां पुरुषाणां यद्यपि न दण्डस्तथाप्यदृष्टदोषोऽस्त्येव । 'स्वदारनियतः सदा' इति नियमात् । 'पशुवेश्याभिगमने प्राजापत्यं विधीयते इति प्रायश्चित्तस्मरणाञ्चेति निरवद्यम् ॥२९०॥
'अवरुद्वासु दासीपु' इत्यनेन दासीस्वैरिण्यादिभुजिष्याभिगमने दण्डं विदधतस्तास्त्रभुजिष्यासु दण्डो नास्तीत्यर्थादुक्तं तदपवादमाह
प्रसह्य दास्यभिगमे दण्डो दशपणः स्मृतः।
बहूनां यद्यकामासौ चतुर्विंशतिकः पृथक् ॥ २९१ ॥ पुरुषसंभोगजीविकासु दासीषु स्वैरिण्यादिषु शुल्कदानविरहेण प्रसह्य बलात्कारेणाभिगच्छतो दशपणो दण्डः । यदि बहव एकौमनिच्छन्तीमपि बलात्कारेणाभिगच्छन्ति तर्हि प्रत्येकं चतुर्विंशतिपणपरिमितं दण्डं दण्डनीयाः । यदा पुनस्तदिच्छया भाटिं दत्त्वा पश्चादनिच्छन्तीमपि बलाद्रजन्ति तदा तेषामदोषः । यदि व्याध्याद्यमिभवस्तस्या न स्यात् । -व्याधिता सश्रमा व्यग्रा राजकर्मपरायणा । आमन्त्रिता चेन्नागच्छेददण्ड्या वडवा स्मृता ॥' इति नारदवचनात् ॥
गृहीतवेतना वेश्या नेच्छन्ती द्विगुणं वहेत् । १ स्वर्थाद्गम्यते घ. २ मुत्कृष्टं घ. ३ उपगमनीया घ. ४ मनभिलषन्तीं घ.
For Private And Personal Use Only