________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तेयप्रकरणम् २३ ] मिताक्षरासहिता। ग्रामादिके चौरपदं प्रविशति स एव चौरार्पणादिकं कुर्यात् । यदा त्वनेकग्राममध्ये क्रोशमात्रावहिः प्रदेशे घातितो मुपितो वा चौरपदं च जनसंमर्दादिना भनं तदा पञ्चानां ग्रामाणां समाहारः पञ्चग्रामी दशग्रामसमाहारो वा दद्यात् । विकल्पवचनं तु यथा तत्प्रत्यासत्यपहृतधनप्रत्यर्पणादिकं कुर्यादित्येवमर्थम् । यदा त्वन्यतोऽपहृतं द्रव्यं दापयितुं न शक्नोति तदा स्वकोशादेव राजा दद्यात् । 'चौरहतमवजित्य यथास्थानं गमयेत्स्वकोशाद्वा दद्यात्' इति गौतमस्मरणात्॥ मुषितामुषितसन्देहे मानुषेण दिव्येन वा निर्णयः कार्यः। 'यदि तस्मिन्दाप्यमाने भवेन्मोपे तु संशयः। मुषितः शपथं दाप्यो बन्धुभिर्वापि साधयेत् ॥' इति वृद्धमनुस्मरणात् ॥ २७२ ॥ अपराधविशेषेण दण्डविशेषमाह
बन्दिग्राहांस्तथा वाजिकुञ्जराणां च हारिणः।
प्रसह्य घातिनश्चैव शूलानारोपयेनरान् ॥ २७३॥ बन्दिप्राहादीन्बलावष्टम्बेन घातकांश्च नरान्शूलानारोपयेत् । अयं च वधप्रकारविशेषोपदेशः । ( ९।३८०)--कोष्ठागारायुधागारदेवतागारभेदकान् । हस्त्यश्वरथहर्तृश्च हन्यादेवाविचारयन् ॥' इति मनुस्मरणात् ॥ २७३ ॥
उत्क्षेपकग्रन्थिभेदो करसन्देशहीनको ।
कार्यों द्वितीयापराधे करपादैकहीनकौ ॥ २७४ ॥ किंच । वस्त्राद्युरिक्षपत्यपहरतीत्युत्क्षेपकः । वस्त्रादिबद्धं स्वर्णादिकं विस्रस्योस्कृत्य वा योपहरत्यसौ ग्रन्थिभेदः । तौ यथाक्रमं करेण सन्दंशसदृशेन तर्जन्याङ्गुष्ठेन च हीनौ कार्यों । द्वितीयापराधे पुनः करश्च पादश्च करपादं तच्च तदेकं च करपादैकं तद्धीनं ययोस्तौ करपादैकहीनको कायौं । उत्क्षेपकग्रन्थिभेदकयोरेकमेकं करं पादं च छिन्द्यादित्यर्थः। एतदप्युत्तमसाहसप्राप्तियोग्यद्रव्यविषयम् । तदङ्गच्छेद इत्युक्तो दण्ड उत्तमसाहसः' इति नारदवचनात् ॥ तृतीयापराधे तु वध एव । तथाच मनुः (९।२७७)-'अङ्गुलीग्रन्थिभेदस्य छेदयेप्रथमे ग्रहे । द्वितीये हस्तंचरणौ तृतीये वधमर्हति ॥' इति । जातिव्यपरिमाणतो मूल्याद्यनुसारतो दण्डः कल्पनीय इति ॥ २७४ ॥
जातिद्रव्यपरिमाणपरिग्रह विनियोगवयःशक्तिगुणदेशकालादीनां दण्डगुरुलघुभावकारणानामानन्त्यात्प्रतिद्रव्यं वक्तुमशक्तेः सामान्येन दण्डकल्पनो. पायमाह
क्षुद्रमध्यमहाद्रव्यहरणे सारतो दमः।
देशकालवय शक्ति संचिन्त्यं दण्डकर्मणि ॥ २७५ ॥ क्षुद्राणां मध्यमानामुत्तमानां च द्रव्याणां हरणे सारतो मूल्याद्यनुसारतो १ चौर्यार्पणादिकं घ. २ समाहारो दशग्रामी वा घ. ३ अन्यागारा ग. ४ हस्तपादौ तु घ.
For Private And Personal Use Only