________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६४
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
परगात्राभिद्रोहे दण्डमुक्त्वानन्तरं बहिरङ्गार्थनाशे दण्डमाह
अभिघाते तथा छेदे भेदे कुड्यावपातने ।
पणान्दाप्यः पञ्चदश विंशति तद्ययं तथा ॥ २२३ ।। मुद्गरादिना कुड्यस्याभिघाते विदारणे द्विधाकरणे च यथाक्रम पञ्चपणो दशपणो विंशतिपणश्व दण्डो वेदितव्यः । अवपातने पुनः कुड्यस्यैते त्रयो दण्डाः समुच्चिता ग्राह्याः । पुनः कुड्यसंपादनार्थ च धनं स्वामिने दद्यात् ॥ २२३ ॥
दुःखोत्पादि गृहे द्रव्यं क्षिपन्प्राणहरं तथा ।
पोडशायः पणान्दाप्यो द्वितीयो मध्यमं दमम् ॥ २२४ ॥ अपिच । परगृहे दुःखजनकं कण्टकादि द्रव्यं प्रक्षिपन्पोडशपणान्दण्ड्यः । प्राणहरं पुनर्विषभुजङ्गादिकं प्रक्षिपन्मध्यमसाहसं दण्ड्यः ॥ २२४ ॥ पश्वभिदोहे दण्डमाह
दुःखे च शोणितोत्पादे शाखाङ्गच्छेदने तथा।
दण्डः क्षुद्रपशूनां तु द्विपणप्रभृतिः क्रमात् ॥ २२५ ॥ क्षुद्राणां पशूनां अजाविकहरिणप्रायाणां ताडनेन दुःखोत्पादने असृक्नावणे शाखाङ्गच्छेदने । शाखाशब्देन चात्र प्राणसंचाररहितं शृङ्गादिकं लक्ष्यते । अङ्गानि करचरणप्रभृतीनि । शाखा चाङ्गं च शाखाङ्गं तस्य छेदने द्विपणप्रभृतिदण्डः । द्वौ पणौ यस्य दण्डस्य स द्विपणः । द्विपणः प्रभृतिरादिर्यस्य दण्डगणस्यासौ द्विपणप्रभृतिः । स च दण्डगणो द्विपणश्चतुःपणः षट्पणोऽष्टपण इत्येवं. रूपो न पुनरिणस्त्रिपणश्चतुष्पणः पञ्चपण इति । कथमिति चेदुच्यते । अपरा. धगुरुत्वात्तावत्प्रथमदण्डाद्गुरुतरमुपरितनं दण्डत्रितयमवगम्यते । तत्र चाश्रुत. त्रित्वादिसंख्याश्रयणाद्वरं श्रुतद्विसंख्याया एवाभ्यासाश्रयणेन गुरुत्वसंपादनमिति निरवद्यम् ॥ २२५ ॥
लिङ्गस्य छेदने मृत्यौ मध्यमो मूल्यमेव च ।
महापशूनामेतेषु स्थानेषु द्विगुणो दमः ॥ २२६ ॥ किंच तेषां क्षुद्रपशूनां लिङ्गच्छेदने मरणे च मध्यमसाहसो दण्डः । स्वामिने च मूल्यं दद्यात् । महापशूनां पुनर्गोगजवाजिप्रभृतीनामेतेषु स्थानेषु ताडनलोहितस्रावणादिषु निमित्तेषु पूर्वोक्ताहण्डाद्द्विगुणो दण्डो वेदितव्यः ॥ २२६ ॥ स्थावराभिद्रोहे दण्डमाह
प्ररोहिशाखिनां शाखास्कन्धसर्व विदारणे । उपजीव्यद्रुमाणां च विंशतेर्द्विगुणो दमः ॥ २२७ ॥
१ द्वैधीकरणे घ. २ समन्विताः घ. ३ अजाविहरिणानां घ. ४ स्त्रिश्चतुःप ख. ५ स्रावणादिनिमित्तेषु ख.
For Private And Personal Use Only