________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६२
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः पञ्चपणो दशपणश्च वेदितव्यः । मोहश्चित्तवैकल्यम् । मदो मद्यपानजन्योऽवस्थाविशेषः । आदिग्रहणाद्रहावेशादिकम् । एतैर्युक्तेन भस्मादिस्पर्शने कृतेऽपि दण्डो न कर्तव्यः॥ २१३ ॥ २१४॥ प्रातिलोम्यापराधे दण्डमाह
विप्रपीडाकरं छेद्यमङ्गमब्राह्मणस्य तु ।
उद्गणे प्रथमो दण्डः संस्पर्शे तु तदर्धिकः ॥ २१५ ॥ ब्राह्मणानां पीडाकरमब्राह्मणस्य क्षत्रियादेर्यदङ्ग करचरणादिकं तच्छेत्तव्यम् । क्षत्रियवैश्ययोरपि पीडां कुर्वतः शूद्रस्याङ्गच्छेदनमेव । (मनुः ८।२७९)'येन केनचिदङ्गेन हिंस्याच्छ्रेयांसमन्त्यजः । छेत्तव्यं तत्तदेवास्य तन्मनोरनुशासनम् ॥' इति । द्विजातिमात्रस्यापराधे शूद्रस्याङ्गच्छेदविधानाद्वैश्यस्यापि क्षत्रियापकारिणोऽयमेव दण्डस्तुल्यन्यायत्वात् । उद्गणे वधार्थमुद्यते शस्त्रादिके प्रथमसाहसो दण्डो वेदितव्यः। शूद्रस्य पुनरुद्र्णेऽपि हस्तादिच्छेदनमेव (८।२०८) --'पाणिमुद्यम्य दण्डं वा पाणिच्छेदनमर्हति' इति मनुस्मरणात् ॥ उद्गुरणार्थ शस्त्रादिस्पर्शने तु तदर्धिकः प्रथमसाहसादर्धदण्डो वेदितव्यः ॥ भस्मादिसंस्पर्श पुनः क्षत्रियवैश्ययोः प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमा इति वाक्पारुष्योकन्यायेन कल्प्यम् । शूद्रस्य तत्रापि हस्तच्छेद एव । ( ८।२८२).-'अवनिठीवतो दर्पाद्वावोष्ठौ छेदयेन्नृपः । अवमूत्रयतो मेढ़मवशर्धयतो गुदम् ॥' इति मनुस्मरणात् ॥ २१५॥ एवं प्रातिलोम्यापराधे दण्डमभिधाय पुनः सजातिमधिकृत्याह
उद्गणे हस्तपादे तु दशविंशतिको दमौ ।
परस्परं तु सर्वेषां शस्त्रे मध्यमसाहसः ॥ २१६ ॥ हस्ते पादे वा ताडनार्थमुद्गुणे यथाक्रमं दशपणो विंशतिपणश्च दण्डो वेदितव्यः । परस्परवधार्थ शस्त्रे उद्गुणे सर्वेषां वर्णिनां मध्यमसाहसो दण्डः ॥२१६॥
पादकेशांशुककरोल्लुश्चनेषु पणान्दश ।
पीडाकर्षांशुकावेष्टपादाध्यासे शतं दमः ॥ २१७ ।। किंच। पादकेशवस्त्रकराणामन्यतमं गृहीत्वा य उलुञ्चति झटित्याकर्षयति असौ दशपणान्दण्ड्यः। पीडा च कर्षश्वांशुकावेष्टश्च पादाध्यासश्च पीडाकर्षाशुकावेष्टपादाध्यासं तस्मिन्समुच्चिते शतं दण्ड्यः । एतदुक्तं भवति । अंशुकेनावेष्ट्य गाढमापीड्याकृष्य च यः पादेन घट्टयति तं शतं पणान्दापयेदिति ॥२१७॥
शोणितेन विना दुःखं कुर्वन्काष्ठादिभिर्नरः ।
द्वात्रिंशतं पणान्दण्ड्यो द्विगुणं दर्शनेऽसृजः ॥ २१८ ।। किंच। यः पुनः शोणितं यथा न दृश्यते तथा मृदुताडनं काष्ठलोष्टादिभिः १ वर्णानां घ. २ दमयेति ग.
For Private And Personal Use Only