________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दायविभागप्रकरणम् ८] मिताक्षरासहिता ।
२१३ मवनियुक्ताभिगमनाङ्गमिति न देवरस्य भार्यात्वमापादयति । अतस्तदुत्पन्नमपत्वं क्षेत्रस्वामिन एव भवति न देवरस्य । संविदा तूभयोरपि ॥ १२७ ॥
समानासमानजातीयानां पुत्राणां विभागक्लप्तिरुक्ता । अधुना मुख्यगौणपुत्राणां दायग्रहणव्यवस्था दर्शयिष्यंस्तेषां स्वरूपं तावदाह
औरसो धर्मपत्नीजस्तत्समः पुत्रिकासुतः।।
क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेण वा ॥ १२८ ॥ उरसो जात औरसः पुत्रः सच धर्मपत्नीजः सवर्णा धर्मविवाहोढा धर्मपत्नी तस्यां जातः औरसः पुत्रो मुख्यः । तत्सम औरससमः पुत्रिकायाः सुतः पुत्रिकासुतः। अतएवौरससमः । यथाह वसिष्ठः-'अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलंकृताम् । अस्यां यो जायते पुत्रः स मे पुत्रो भवेदिति ॥' इति । अथवा पुत्रिकैव सुतः पुत्रिकासुतः सोऽप्यौरससम एव पित्रवयवानामल्पत्वात् मात्रवयवानां बाहुल्याच । यथाह वसिष्ठः-'द्वितीयः पुत्रिकैव' इति । द्वितीयः पुत्रः पुत्रिकैवेत्यर्थः । ब्यामुष्यायणस्तु जनकस्यौरसादपकृष्टोऽन्यक्षेत्रोत्पन्नत्वात् । क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेण वा । इतरेण सपिण्डेन देवरेण वोत्पन्नः पुत्रः क्षेत्रजः॥
गृहे प्रच्छन्न उत्पन्नो गूढजस्तु सुतः स्मृतः ।
कानीनः कन्यकाजातो मातामहसुतो मतः ॥ १२९ ॥ गूढजः पुत्रो भर्तृगृहे प्रच्छन्न उत्पन्नो हीनाधिकजातीय पुरुषजत्वपरिहारेण पुरुषविशेषजत्वनिश्चयाभावेऽपि सवर्णजत्वनिश्चये सति बोद्धव्यः । कानीनस्तु कन्यकायामुत्पन्नः पूर्ववत्सवर्णासु मातामहस्य पुत्रः । यद्यनूढा सा भवेत्तथा पितृगृह एव संस्थिता । अथोढा तदा वोदुरेव पुत्रः । यथाह मनुः (९।१७२) -'पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्गहः । तं कानीनं वदेन्नान्ना वोढुः कन्यासमुद्भवम् ॥' इति ॥ १२९ ॥
अक्षतायां क्षतायां वा जातः पौनर्भवः सुतः ।
दद्यान्माता पिता वायं स पुत्रो दत्तको भवेत् ॥ १३० ॥ पौन वस्तु पुत्रोऽक्षतायां क्षतायां वा पुनवां सवर्णादुत्पन्नः । मात्रा भज्रनुज्ञया प्रोषिते प्रेते वा भर्तरि पित्रा वोभाभ्यां वा सवर्णाय यसै दीयते स तस्य दत्तकः पुत्रः । यथाह मनुः (९।१६८)-'माता पिता वा दद्यात्तां यमद्भिः पुत्रमापदि । सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्रिमः सुतः ॥' इति । आपद्रहणादनापदि न देयः । दातुरयं प्रतिषेधः । तथा एकपुत्रो न देयः । 'न
१ स्यौरसान्निकृष्टो घ. २ रहः अप्रकाशम्. ३ वोढुः कन्यापरिणेतुः. ४ वाशब्दान्मात्रभावे पितैव दद्यात् । पित्रभावे मातैव । उभयसत्वे तु उभावपीति मदनः. ५ सदृशं कुलगुणादिमिन जात्येति मेधातिथिः सदृशं जात्येति कुल्लूकः.
For Private And Personal Use Only