________________
Shri Mahavir Jain Aradhana Kendra
"
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दायविभागप्रकरणम् ८ ] मिताक्षरासहिता ।
१९९
ग्रहादिलब्धस्यापि स्वत्वात्तत्पुत्राणां तद्विभाज्यमेव । ' तस्योत्सर्गेण शुद्धयन्ति' इति प्रायश्चित्तमर्जयितुरेव तत्पुत्रादीनां तु दायत्वेन स्वत्वमिति न तेषां दोषसंबन्धः ॥ – 'सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः । प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ॥' इति ( १०।१५ ) मनुस्मरणात् ॥
---
1
इदानीमिदं संदिह्यते - किं विभागात्स्वत्वमुत स्वस्य सतो विभाग इति । तत्र विभागास्वत्वमिति तावद्युक्तम् । जातपुत्रस्याधानविधानात् । यदि जन्मनैव स्वत्वं स्यात्तदोत्पन्नस्य पुत्रस्यापि तत्स्वं साधारणमिति द्रव्यसाध्येय्वाधानादिषु पितुरनधिकारः स्यात् । तथा विभागात्प्रापितृप्रसादलब्धस्य विभागप्रतिषेधो नोपपद्यते । सर्वानुमता दत्तत्वाद्विभागप्रात्यभावात् । यथाह - 'शौर्य भार्याधने चोभे यच्च विद्याधनं भवेत् । त्रीण्येतान्यविभाज्यानि प्रसादो यश्च पैतृकः ॥' इति ॥ तथा — 'भर्ना प्रीतेन यद्दत्तं स्त्रियै तस्मिन्मृतेऽपि तत् । सा यथाकाममश्नीयाद्दद्याद्वा स्थावराते ॥' इति प्रीतिदानवचनं च नोपपद्यते जन्मनैव स्वत्वे । नच स्थावराहते यत्तमिति संबन्धो युक्तो व्यवहितयोजनाप्रसङ्गात् । यदपि - 'मणिमुक्ताप्रवालानां सर्वस्यैव पिता प्रभुः । स्थावरस्य तु सर्वस्य न पिता न पितामहः ॥' तथा--' - 'पितृप्रसादाद्भुज्यन्ते वस्त्राण्याभरणानि च । स्थावरं तु न भुज्येत प्रसादे सति पैतृके ||' इति स्थावरस्य प्रसादेदाने प्रतिषेधवचनं तत्पितामहोपात्तस्थावरविषयम् । अतीते पितामहे तद्धनं पितापुत्रयोः साधारणमपि मणिमुक्तादि पितुरेव । स्थावरं तु साधारणमित्यस्मादेव वचनादवगम्यते । तस्मान्न जन्मना स्वत्वं किंतु स्वामिनाशाद्विभागाद्वा स्वत्वम् । अतएव पितुरूर्ध्व विभागात्प्राद्रव्यस्वत्वस्य प्रहीणत्वादन्येन गृह्यमाणं न निवार्यत इति चोद्यस्यानवकाशः । तथैकपुत्रस्यापि पितृप्रयाणादेव पुत्रस्य स्वमिति न विभागमपेक्षत इति । अत्रोच्यते- लोकप्रसिद्धमेव स्वत्वमित्युक्तम् । लोके च पुत्रादीनां जन्मनैव स्वत्वं प्रसिद्धतरं नापह्नवमर्हति । विभागशब्दश्च बहुस्वामिकधनविर्षेयो लोकप्रसिद्धो नान्यदीयविषयो न प्रहीणविषयः । - तथोत्पत्स्यैवार्थ स्वामित्वं लभेतेत्याचार्याः' इति गौतमवचनाच्च । 'मणिमुक्ताप्रवालानाम्' इत्यादिवचनं च जन्मना स्वत्वपक्ष एवोपपद्यते । नच पितामहोपात्तस्थावरविषयमिति युक्तम् । 'न पिता न पितामहः' इति वचनात् । पितामहस्य हि स्वार्जितमपि पुत्रे पौत्रे सत्यदेयमिति वचनं जन्मना स्वत्वं गमयति । यथा परमते मणिमुक्ताप्रवालवस्वाभरणादीनां पैतामहानामपि पितुरेव स्वत्वं वचनात्, एवमस्मन्मतेsपि पित्रार्जितानामप्येतेषां पितुर्दानाधिकारो वचनादित्यविशेषः ॥ यत्तु भर्त्रा प्रीतेन' इत्यादिविष्णुवचनं स्थावरस्य प्रीतिदानज्ञापनं तत्स्वोपार्जितस्यापि पुत्राद्यभ्यनुज्ञयैवेति व्याख्येयम् । पूर्वोक्तैर्मणिमुक्तादिवचनैः स्थावरव्यतिरिक्त
च
८ मुक्ता
१ त्वमुत. घ. २ प्रसादादिह न प्रति ख. प्रसाददाने प्रति घ. ३ समानमपि घ. ४ विषयः प्रसिद्ध ग. ५ न्यदीयधनविषयो घ. ६ तं तथोत्पत्येव ख. ७ पितृपितामहस्य घ. वस्त्राभरणा बघ. ९ एतेषां मणिमुक्तादीनां.
पा० २०
For Private And Personal Use Only