________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६
याज्ञवल्क्यस्मृतिः ।
[ व्यवहाराध्यायः
I
1
भावसे यस्माद्धस्तेनाभिधीयसे । त्वं वेत्सि सर्वजन्तूनां पापानि सुकृतानि च ॥ त्वमेव देव जानीषे न विदुर्यानि मानवाः । व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति ॥ तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि ॥' इति । शोध्यस्तु 'वं तुले' इत्यादिना पूर्वोक्तेन मन्त्रेण तुलामामन्त्रयेत् । अनन्तरं प्राङ्गिवाकः शिरोगतपत्रकं शोध्य यथास्थानं निवेश्य च घटमारोपयति - 'पुनरारोपयेत्तस्मिञ्छिरोवस्थित पत्रकम्' इति स्मरणात् । आरोपितं च विनाडीपञ्चकं यावत्तथैवावस्थापयेत् । तत्कालपरीक्षां च ज्योतिःशास्त्राभिज्ञः कुर्यात् – 'ज्योतिर्विद्राह्मणः श्रेष्ठः कुर्यात्कालपरीक्षणम् । विनाड्यः पञ्च विज्ञेयाः परीक्षाकालकोविदैः ॥' इति स्मरणात् । दशगुर्वक्षरोच्चारणकालः प्राणः षट्प्राणा विनाडी । उक्तंच - 'दशगुरुवर्णः प्राणः षट् प्राणाः स्याद्विनाडिका तासामू । षष्ट्या घटी घटीनां ष्ट्याहः खाग्निभिर्दिनैर्मासः ॥' इति । तस्मिंश्च काले शुद्ध्यशुद्धिपरीक्षणार्थं शुचयः पुरुषा राज्ञा नियोक्तव्याः । ते च शुद्ध्यशुद्धी कथयन्ति । यथोक्तं पितामहेन - 'साक्षिणो ब्राह्मणाः श्रेष्ठा यथादृष्टार्थवादिनः । ज्ञानिनः शुचयोऽलुब्धा नियोक्तव्या नृपेण तु ॥ शंसन्ति साक्षिणः श्रेष्ठः शुच्यशुद्धी नृपे तदा ॥' इति । शुद्ध्यशुद्धिनिर्णयकारणं चोक्तम्- 'तुलितो यदि वर्धेत स शुद्धः स्यान्न संशयः । समो वा हीयमानो वा न सँ शुद्धो भवेन्नरः ॥' इति । यत्तु पितामहवचनम् -'अल्पदोषः समो ज्ञेयो बहुदोषस्तु हीयते' इति, तत्र यद्यप्यभियुक्तस्यार्थस्याल्पत्वं बहुत्वं च न दिव्येनावधारयितुं शक्यते तथापि सकृदमतिपूर्वत्वेनाल्पत्वमसकृन्मति पूर्वश्वेन च महत्त्वमिति दण्डप्रायश्चित्ताल्पत्वमहत्त्वमवधार्यते । यदा चानुपलक्ष्यमाणदृष्टकारण एव कक्षादीनां छेदो भङ्गो वा भवति तदाप्यशुद्धिरेव - ' कक्षच्छेदे तुलाभङ्गे घटकर्कटयोस्तथा । रज्जुच्छेदेऽक्षभङ्गे वा तथैवाशुद्धिमादिशेत् ॥' इति स्मरणात् । कथं शिक्यतलम् । कर्कटो तुलान्तयोः शिक्याधारावीषद्वक्रावायसकीलको कर्कटशृङ्गसंनिभौ । अक्षः पादस्तम्भयोरुपरि निविष्टस्तुलाधारपट्टः । यदा तु दृश्यमानकारणक एषां भङ्गस्तदा पुनरारोपयेत् - 'शिक्यादिच्छेदंभङ्गेषु पुनरारोपयेश्वरम्' इति स्मरणात् । ततश्च — 'ऋत्विक्पुरोहिताचार्यान्दक्षिणा मिश्च तोषयेत् । एवं कारयिता राजा भुक्त्वा भोगान्मनोरमान् ॥ महतीं कीर्तिमाप्नोति ब्रह्मभूयाय कल्पते ॥' यदा तूक्तलक्षणं धटं तथैव स्थापयितुमिच्छति तदा वायसाद्युपघातनिरासार्थ कपाटादिसहितां शालां कुर्यात् – 'विशालामुन्नेतां शुभ्रां घटशालां तु कारयेत् । यवस्था नोपहन्येत श्वमिश्चण्डालवायसैः ॥ तत्रैव लोकपालादीन्सर्वान्दिक्षु 'निवेशयेत् । त्रिसन्ध्यं पूजयेदेतान्गन्धमाल्यानुलेपनैः ॥ कपाटबीजसंयुक्तां परिचारकरक्षिताम् । मृत्पानीयामिसंयुक्तामशून्यां कारयेन्नृपः ॥' इति स्मरणात् । बीजानि यवत्रीह्यादीनि ॥ १०० ॥ १०१ ॥ १०२ ॥ इति घटविधिः ॥
१ सर्वभूतानां घ. २ त्वमेव सर्वे घ. ३ यथानिवेशं च घ. ४ षष्ट्याहोरात्र उक्तश्च ख. ५ शोध्यशुद्धि ग. ६ सर्वे घ. ७ न विशुद्धो घ. ८ छेदे च भङ्गे च घ. ९ भङ्गे तु घ. १० मुच्छ्रितां घ.
For Private And Personal Use Only