________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऋणादानप्रकरणम् ३] मिताक्षरासहिता।
१६१ तत्रापि येनाङ्गुलीयकार्पितं स एव चेयवस्थातिवर्ती तेन तदेव दातव्यम् । इतरश्चेद्यवस्थातिवर्ती तदा तदेवाङ्गुलीयकादि द्विगुणं प्रतिदापयेदिति ॥ ६१ ॥
उपस्थितस्य मोक्तव्य आधिः स्तेनोऽन्यथा भवेत् ।
प्रयोजकेऽसति धनं कुलेऽन्यस्याधिमाप्नुयात् ॥ ६२॥ किंच । धनदानेनाधिमोक्षणायोपस्थितस्याधिर्मोक्तव्यो धनिनो न वृद्धिलोभेन स्थापयितव्यः। अन्यथा अमोक्षणे स्तेनश्चौरवद्दण्ड्यः स्यात् । असंनिहिते पुनः प्रयोक्तरि कुले तदाप्तहस्ते सवृद्धिकं धनं विधायाधमर्णकः स्वीयं बन्धकं गृह्णीयात् ॥ ६२ ॥
अथ प्रयोक्ताप्यसंनिहितस्तदाप्ताश्च धनस्य ग्रहीतारो न सन्ति यदि वा असंनिहिते प्रयोक्तर्याधिविक्रयेण धनदित्साधमर्णस्य तत्र किं कर्तव्यमित्यपेक्षित आह
तत्कालकृतमूल्यो वा तत्र तिष्ठेदवृद्धिकः । तस्मिन्काले यत्तस्याघेर्मूल्यं तत्परिकल्प्य तत्रैव धनिनि तमाधि वृद्धिरहितं स्थापयेन तत ऊँवं विवर्धते । यावद्धनी धनं गृहीत्वा तमाधि मुञ्चति, यावद्वा तन्मूल्यद्रव्यमृणे प्रवेशयति ॥ __ यदा तु द्विगुणीभूतेऽपि धने द्विगुणं धनमेव ग्रहीतव्यं न त्वाधिनाश इति विचारितमृणग्रहणकाल एव तदा द्विगुणीभूते द्रव्ये असंनिहिते वाऽधमणे धनिना किं कर्तव्यमित्यत आह
विना धारणकाद्वापि विक्रीणीत ससाक्षिकम् ॥ ६३॥ धारणकादधमर्णाद्विना अधमणेऽसंनिहिते साक्षिभिस्तदाप्तैश्च सह तमाधि विक्रीय तद्धनं गृह्णीयाद्धनी । वाशब्दो व्यवस्थितविकल्पार्थः । यदर्णग्रहणकाले द्विगुणीभूतेऽपि धने धनमेव ग्रहीतव्यं न स्वाधिनाश इति न विचारितं तदा 'आधिः प्रणश्येविगुणे' इत्याधिनाशः । विचारिते त्वयं पक्ष इति ॥ ६३ ॥ भोग्याधौ विशेषमाह
यदा तु द्विगुणीभूतमृणमाधौ तदा खलु ।
मोच्य आधिस्तदुत्पन्ने प्रविष्टे द्विगुणे धने ॥ ६४ ॥ यदा प्रयुक्तं धनं स्वकृतया वृद्ध्या द्विगुणीभूतं तदाधौ कृते तदुत्पन्ने आध्युत्पन्ने द्रव्ये द्विगुणे धनिनः प्रविष्टे धनिनाधिर्मोक्तव्यः । यदि वादावेवाधौ दत्ते द्विगुणीभूते द्रव्ये त्वयाधिर्मोक्तव्य इति परिभाषया, कारणान्तरेण वा भोगाभावेन यदा द्विगुणीभूतमृणं तदा, आधौ भोगार्थ धनिनि प्रविष्टे तदुत्पन्ने द्रव्ये द्विगुणे सत्याधिर्मोक्तव्यः । अधिकोपभोगे तदपि देयम् । सर्वथा सवृद्धिकमूलापाकरणार्थाध्युपभोगविषयमिदं वचनम् । तमेनं क्षयाधिमाचक्षते लौकिकाः ।
१ इतरं चेत् ख. २ दण्ड्यो भवति ख. ३ कल्पते तत्रेव ख. ४ ऊर्ध्वं धनं वर्धते ग. ५ मृणिने ख.६ धारणिकात् ख. ७ मूल्यापाकरणार्थ ख.
For Private And Personal Use Only