________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः पप्लवादि । दैवकृताद्विनाशाद्विना । तथा स्वापराधरहिताद्राजकृतात् । देवराजकृते तु विनाशे सवृद्धिकं मूल्यं दातव्यमधमणेनाध्यन्तरं वा । यथाह-'स्रोतसापहृते क्षेत्रे राज्ञा चैवापहारिते । आधिरन्योऽथ कर्तव्यो देयं वा धनिने धनम् ॥' इति । तत्र स्रोतसापहृत इति दैवकृतोपलक्षणम् ॥ ५९॥
आधेः स्वीकरणात्सिद्धी रक्ष्यमाणोऽप्यसारताम् ।
यातश्चेदन्य आधेयो धनभाग्वा धनी भवेत् ॥ ६० ॥ अपिच । आधेर्नोग्यस्य कोऽप्यस्य च स्वीकरणादुपभोगादाधिग्रहणसिद्धिर्भवति न साक्षिलेख्यमात्रेण नाप्युद्देशमात्रेण । यथाह नारदः-'माधिस्तु द्विविधः प्रोक्तो जङ्गमः स्थावरस्तथा । सिद्धिरस्योभयस्यापि भोगो यद्यस्ति नान्यथा ॥' इति । अस्य च फलं-'आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा' इति । या स्वीकारान्ता क्रिया सा पूर्वा बलवती । स्वीकाररहिता तु पूर्वापि न बलवतीति । स चाधिः प्रयत्नेन रक्ष्यमाणोऽपि कालवशेन यद्यसारतामविकृत एवं सवृद्धिकमूल्यद्रव्यापर्याप्ततां गतस्तदाधिरन्यः कर्तव्यो धनिने धनं वा देयम् । रक्ष्यमाणोऽप्यसारतामिति वदता आधिः प्रयत्नेन रक्षणीयो धनिनेति ज्ञापितम् ॥ ६ ॥ आधिः प्रणश्येद्विगुणे इत्यस्यापवादमाह---
चरित्रबन्धककृतं सवृद्ध्या दापयेद्धनम् ।।
सत्यंकारकृतं द्रव्यं द्विगुणं प्रैतिदापयेत् ॥ ६१॥ चरित्रं शोभनचरितं चरित्रेण बन्धकं चरित्रबन्धकं तेन यद्रव्यमात्मसात्कृतं पराधीनं वा कृतम् । एतदुक्तं भवति-धनिनः स्वच्छाशयत्वेन बहुमूल्यमपि द्व्यमाधीकृत्याधमणेनाल्पमेव द्रव्यमात्मसात्कृतम् । यदि वाधमर्णस्य स्वच्छाशयत्वेनाल्पमुल्यमाधि गृहीत्वा बहुद्रव्यमेव धनिनाधमर्णाधीनं कृतमिति । तद्धनं स नृपो वृद्ध्या सह दापयेत् । अयमाशयः-एवंबन्धकं द्विगुणीभूतेऽपि द्रव्ये न नश्यति किंतु द्रव्यमेव द्विगुणं दातव्यमिति । तथा सत्यंकारकृतं । करणं कारः । भावे घञ् । सत्यस्य कारः सत्यंकारः-'कारे सत्यागदस्य' इति मुम् । सत्यंकारेण कृतं सत्यंकारकृतम् । अयमभिसन्धिः -यदा बन्धकापंणसमय एवेत्थं परिभाषितं द्विगुणीभूतेऽपि द्रव्ये मया द्विगुणं द्रव्यमेव दा. तव्यं नाधिनाश इति तदा तद्विगुणं दापयेदिति । अन्योऽर्थः। चरित्रमेव बन्धकं चरित्रबन्धकं । चरित्रशब्देन गङ्गास्नानाग्निहोत्रादिजनितमपूर्वमुच्यते । यत्र तदेवाधीकृत्य यद्रव्यमात्मसारकृतं तत्र तदेव द्विगुणीभूतं दातन्यं नाधि. नाश इति । आधिप्रसङ्गादन्यदुच्यते सत्यकारककृतमिति । क्रयविक्रयादिव्यव. स्थानिहाय यदङ्गुलीयकादि परहस्ते कृतं तद्यवस्थातिक्रमे द्विगुणं दातव्यम् ।
१ गोप्यस्य भोग्यस्य च. २ स्वीकारान्तक्रिया पूर्वा ख. ३ प्रतिपादयेत् घ. ४ एवंविधं घ. ५ द्विगुणीभूतमेव द्रव्यं घ.६ कृतं तदा तत्र ख.
For Private And Personal Use Only