________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधाणरव्य०मा०प्र० ] मिताक्षरासहिता ।
१४१
अयमभिसंधिः । स्वस्वत्व निवृत्तिः परस्वत्वापादनं च दानम् । परस्वत्वापादनं च परो यदि स्वीकरोति तदा संपद्यते नान्यथा । स्वीकारश्च त्रिविधः । मानसो वाचिकः कायिकश्चेति । तत्र मानसो ममेदमिति संकल्परूपः । वाचिकस्तु ममेदमित्याद्यभिव्याहारोल्लेखी सविकल्पकः प्रत्ययः । कायिकः पुनरुपादानाभिमर्शनादिरूपोऽनेकविधः । तत्र च नियमः स्मर्यते - 'दद्यात्कृष्णाजिनं पृष्ठे गां पुच्छे करिणं करे | केसरेषु तथैवाश्वं दासीं शिरसि दापयेत् ॥' इति । आश्वलायनोऽप्याह - 'अनुमन्येत प्राण्यभिमृशेद्वप्राणि कन्यां च' इति । तत्र हिरण्यवस्त्रादावुदकदानानन्तरमेवोपादानादिसंभवात् त्रिविधोऽपि स्वीकारः संपद्यते । क्षेत्रादौ पुनः फलोपभोगव्यतिरेकेण कायिकस्वीकारासंभवात्स्वल्पेनाप्युपभोगेन भवितव्यमन्यथा दानक्रयादेः संपूर्णता न भवतीति फलोपभोगलक्षणकायिकस्वीकारविकल आगमो दुर्बलो भवति तत्सहितादागमात् । एतच्च द्वयोः पूर्वापरकालापरिज्ञाने, पूर्वापरकालपरिज्ञाने तु चिगुणोऽपि पूर्वकालागम एव बलीयानिति । अथवा--' लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिचिधम्' इत्युक्तं एतेषां समवाये कुत्र कस्य वा प्राबल्यमित्यत्रेदमुपतिष्ठते -- 'आगमोऽभ्यधिको भोगाद्विना पूर्वक्रमागतात् । आगमेऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ॥' इति । अयमर्थः -- आद्ये पुरुषे साक्षिभिर्भावित आगमो भोगादयधिक बलवान् । पूर्वक्रमागताद्भोगाद्विना । स पुनः पूर्वक्रमागतो भोगश्चतुर्थपुरुषे लिखितेन भावितादागमाद्बलवान् । मध्यमे तु भोगरहितादागमात्तोकभोगसहितोऽप्यागमो बलवानिति । एतदेव नारदेन स्पष्टीकृतम्'भादौ तु कारणं दानं मध्ये भुक्तिस्तु सागमा । कारणं भुक्तिरेवैका संतता या - चिरन्तनी ॥' इति ॥ २७ ॥
पश्यतोऽब्रुवत इत्यत्र विंशतिवर्षोपभोगादूर्ध्वं भूमेर्धनस्यापि दशवर्षोपभोगादूर्ध्वं फलानुसरणं न भवतीत्युक्तम्, तत्र फलानुसरणवद्दण्डानुसरणमपि न भविष्यतीत्याशङ्क्य पुरुषव्यवस्थया प्रामाण्यव्यवस्थाया च दण्डव्यवस्थां दर्शयितुमाह
आगमस्तु कृतो येन सोऽभियुक्तस्तमुद्धरेत् ।
न तत्सुतस्तत्सुतो वा भुक्तिस्तत्र गरीयसी ॥ २८ ॥
येन पुरुषेण भूम्यादेरागमः स्वीकारः कृतः पुरुषः कुतस्ते क्षेत्रादिकमित्यभियुक्तस्तस्यागमं प्रतिग्रहादिकं लिखितादिभिरुद्धरेत् भावयेत् । अनेन चाद्यस्य पुरुषस्यागममनुद्धरतो दण्ड इत्युक्तं भवति । तत्सुतो द्वितीयोऽभियुक्तो नागममुद्धरेत्, किंतु अविच्छिन्ना - ऽप्रतिरव- समक्ष - भोगम् । अनेन चागममनुद्धरतो द्वितीयस्य न दण्डोsपितु विशिष्टं भोगमनुद्धरतो दण्ड इति प्रतिपादितम् ।
१ कायिकस्तु. ख. २ करे शुण्डादण्डे ३ प्रतिग्राह्यो यदा प्राणी बलवान् वक्तुं समर्थस्तदा तं प्रतिग्राहं प्रतिग्रहीता अनुमन्त्रयेत ४ सहितादागमाभावात् ख. घ. ५ केवलभोगस्य स्मार्तकालत्वात् स्वत्वे अप्रामाण्यात्. ६ प्रतिग्रहादेरिति ख. ७ प्रतिपादयेत्.
For Private And Personal Use Only