________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः
[आचाराध्यायः
व्यवहारान्स्वयं पश्येत्सभ्यैः परिवृतोऽन्वहम् ॥ ३६० ॥ - इत्येवमुक्तप्रकारेण ऋतुतुल्यं फलं दण्ड्यदण्डेन, स्वर्गादिनाशं चादण्ड्यदण्डेन सम्यग्विचिन्त्य पृथक्पृथग्वर्णादिक्रमेण सभ्यैर्वक्ष्यमाणलक्षणैः परिवृतः प्रतिदिनं व्यवहारान्वक्ष्यमाणमार्गेण दुष्टादुष्टपरिज्ञानार्थ राजा स्वयं पश्येत् ॥३६०
कुलानि जातिः श्रेणीश्च गणाञ्जानपदानपि ।
स्वधर्माच्चलितानाजा विनीय स्थापयेत्पथि ॥ ३६१ ॥ कुलानि ब्राह्मणादीनाम् । जातयो मूर्धावसिक्तप्रभृतयः । श्रेणयस्ताम्बूलिकादीनाम् । गणा हेलावुक्कादीनाम् । जानपदाः कारुकादयः । एतान्स्वधर्माच्चलितान्प्रच्युतान् राजा यथापराधं विनीय दण्डयित्वा पथि स्वधर्म स्थापयेत् । दण्डं दुर्वृत्तेषु निपातयेदित्युक्तं सच दण्डो द्विविधः शारीरोऽर्थदण्डश्चेति । यथाह नारदः-'शारीरश्वार्थदण्डश्च दण्डो हि द्विविधः स्मृतः । शारीरस्ताडनादिस्तु मरणान्तः प्रकीर्तितः ॥ काठिन्यादिस्त्वर्थदण्डः सर्वस्वान्तस्तथैव च ॥' इति । द्विविधोऽप्यपराधानुसारेणानेकधा भवति । आह स-'शारीरो दशधा प्रोक्तो ह्यर्थदण्डस्त्वनेकधा' इति ॥ ३६१ ॥
तत्र कृष्णलमाषसुवर्णपलादिशब्दैरर्थदण्डा वक्तव्यास्ते च प्रतिदेशं भिन्नपरिमाणार्था इत्येकरूपापराधेऽपि देशभेदेन न्यूनाधिकदण्डो माभूदिति कृष्णलादिशब्दानां नियतपरिमाणविषयत्वं दण्डव्यवहारे दर्शयितुमाह
जालसूर्यमरीचिस्थं त्रसरेण रजः स्मृतम् । तेष्टौ लिक्षा तु तास्तिस्रो राजसर्षप उच्यते ॥ ३६२ ।। गौरस्तु ते त्रयः षट् ते यवो मध्यस्तु ते त्रयः । कृष्णलः पञ्च ते माषस्ते सुवर्णस्तु षोडश ॥ ३६३ ॥
पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तितम् ।। जालकान्तरप्रविष्टादित्यरश्मिस्थितं यद्रजस्तत् ब्रसरेणुरित्युक्तं योगीश्वरादिभिस्तत्वदर्शिभिः । तेच सरेणवोऽष्टौ लिक्षा स्वेदजयूकाण्डम् । ता लिक्षास्तिस्त्रो राजसर्षपो राजिका । ते राजसर्षपास्त्रयो गौरसर्षपः सिद्धार्थः। गौरसपपाः षट् यवो मध्यः । मध्यमो न स्थूलो न सूक्ष्मः । एतेन गौरसर्षपा अपि मध्यमा इति गम्यते । तथा राजसर्षपा अपि मध्यमशब्दादेव सर्षपादिशब्दाः न केवलमुन्मानवचनाः किंतु तदुन्मितगव्यवचना इति गम्यते । यथा प्रस्थपरिमिता यवाः प्रस्थ उच्यते । एवं सर्षपाधुन्मितं द्रव्यं सर्षपादिशब्दैः । सर्षपादिशब्दानां च केवलोन्मानवचनत्वे त्रसरेणूंनुपसंहृत्योन्मातुमशक्यत्वात्तद्वारेण कृष्णलादिव्यवहारो न स्यात् । तत्र स्थूलस्थूलतरस्थूलतमसूक्ष्मसूक्ष्मतरसूक्ष्मतममध्यसर्षपाद्युन्मानभेदेन प्रतिदेशं व्यवहारभेदे स्थिते दण्डव्यवहारे मध्य इति नियम्यते । ते मध्यमा यवास्त्रय एकः कृष्णलः । ते कृष्णला: १ वक्ष्यमाणधर्मेण क. २ हेलावुक्का अश्वव्यवहारिणः. ३ रेणूनामुपसंहृत्य क.
For Private And Personal Use Only