________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [आचाराध्यायः सामन्तबधिकारिषु अन्येषु च महीपतिषु प्रेषयेत्तचिकीर्षितपरिज्ञानाय । ततः प्रातःसंध्यामुपास्याऽग्निहोत्रं हुत्वा पुरोहितविंगाचार्यादिभिराशीभिरभिनन्दितो ज्योतिर्विदो दृष्ट्वा तेभ्यश्च ग्रहादिस्थितिं विदित्वा शान्तिकादीनि च पुरोहितानादिश्य वैद्यांश्च दृष्ट्वा तेभ्यश्च स्वशरीरस्थिति निवेद्य प्रतिविधानं चादिश्य गां दोग्धों काञ्चनं महीं च नैवेशिकानि विवाहोपयोगीनि कन्यालंकारादीनि गृहाणि च सुधाधवलितादीनि श्रोत्रियेभ्योऽधीतवेदेभ्यो ब्राह्मणेभ्यः । दद्यादिति प्रत्येकं संबध्यते ॥ ३३२ ॥ ३३३ ॥
ब्राह्मणेषु क्षमी स्निग्धेष्वजिह्मः क्रोधनोऽरिषु ।
स्याद्राजा भृत्यवर्गेषु प्रजासु च यथा पिता ॥ ३३४ ॥ किंच । ब्राह्मणेष्वधिक्षिपस्वपि क्षमी क्षमावान् । स्निग्धेषु स्नेहवत्सु मित्रादिष्वजिह्मः अवक्रः । अरिषु क्रोधनः । भृत्यवर्गेषु प्रजासु च हिताचरणेनाहित. निवर्तनेन च पितेव दयावान् । स्यादिति प्रत्येकं संबध्यते ॥ ३३४ ॥ प्रजापालनफलमाह
पुण्यात्षड्भागमादत्ते न्यायेन परिपालयन् ।
सर्वदानाधिकं यस्मात्प्रजानां परिपालनम् ॥ ३३५॥ यसाच्यायेन शास्त्रोक्तमार्गेण प्रजाः परिपालयन् परिपालितप्रजोपहितपुण्यात् षड्भागं षष्ठं भागमादत्ते । यस्माञ्च सर्वेभ्यो भूम्यादिदानेभ्यः प्रजानां परिपालनमधिकफलम् । तस्मात्प्रजासु यथा पिता तथैव स्यादिति गतेन संबन्धः ॥ ३३५॥
चाटतस्करदुर्वृत्तमहासाहसिकादिभिः।
पीड्यमानाः प्रजा रक्षेत्कायस्थैश्च विशेषतः ॥ ३३६ ॥ चाटाः प्रतारकाः विश्वास्य ये परधनमपहरन्ति । प्रच्छन्नापहारिणस्तस्कराः । दुर्वृत्ता इन्द्रजालिककितवादयः । सहो बलं सहसा बलेन कृतं साहसं महञ्च तस्साहसं च महासाहसं तेन वर्तन्त इति महासाहसिकाः प्रसह्यापहारिणः । आदिशब्दान्मौलिककुहकदुर्वृत्तयः । एतैः पीड्यमाना बाध्यमानाः प्रजा रक्षेत् । कायस्था लेखका गणकाश्च तैः पीड्यमाना विशेषतो रक्षेत् । तेषां राजवल्लभतयातिमायाविस्वाञ्च दुर्निवारत्वात् ॥ ३३६ ॥
अरक्ष्यमाणाः कुर्वन्ति यत्किंचित्किल्बिषं प्रजाः।
तसात्तु नृपतेरधैं यसाहात्यसौ करान् ॥ ३३७॥ अरक्ष्यमाणाः प्रजाः यत्किंचित्किल्बिषं चौर्यपरदारगमनादि कुर्वन्ति तस्मात्पापादधैं नृपतेर्भवति । यस्मादसौ राजा रक्षणार्थ प्रजाभ्यः करान् गृहाति ॥ ३३७ ॥ १ धर्मशास्त्रोक्तेन. ग. २ ऐद्न्जालिक. ग. ३ अपकारिणः ग.
For Private And Personal Use Only