________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राजधर्मप्रकरणम् १३ ] मिताक्षरासहिता।
१०३ पूर्वप्रेषितानागतान्मन्निसंगतः पश्येत् । दृष्ट्वा तद्वार्तामाकलय्य पुनः पुनः प्रेषयेत् ॥ ३२८॥
ततः स्वैरविहारी स्यान्मबिभिर्वा समागतः।
बलानां दर्शनं कृत्वा सेनान्या सह चिन्तयेत् ॥ ३२९ ॥ तदनन्तरमपराहे स्वैरं यथेष्टमेकोऽन्तःपुरविहारी स्यात् । मन्त्रिभिर्वा विश्वासिमिः कलाकुशलैः परिहासवेदिभिः परिवृतः स्त्रीभिश्च रूपयौवनवैदग्ध्यशालिनीभिः-'भुक्तवान्विहरेञ्चैव स्त्रीभिरन्तःपुरे सह । विहृत्य तु यथाकामं पुनः कार्याणि चिन्तयेत् ॥' इति (७।२२१) मनुस्मरणात् । ततो विशिष्टैर्वस्त्रकुसुमविलेपनालंकारैरलंकृतः हस्त्यश्वरथपदातिबलानि दृष्ट्वा सेनान्या सेनापतिना सह तद्रक्षणादि देशकालोचितं चिन्तयेत् ॥ ३२९ ॥
संध्यामुपास्य शृणुयाचाराणां गूढभाषितम् ।
गीतनृत्यैश्च भुञ्जीत पठेत्स्वाध्यायमेव च ॥३३०॥ ततः सायंकाले संध्यामुपास्य । सामान्येन प्राप्तस्यापि पुनर्वचनं कार्याकुलत्वादविस्मरणार्थम् । अनन्तरं ये पूर्वदृष्टाः क्वचित्स्थाने निवेशितास्तेषां चाराणां गूढभाषितमन्तर्वेश्मनि शस्त्रपाणिः शृणुयात् । उक्तंच मनुना (८।२२३)-'संध्यां चोपास्य शृणुयादन्तर्वेश्मनि शस्त्रभृत् । रहस्याख्यायिनां चैव प्रणिधीनां च चेष्टितम् ॥' इति । ततो नृत्यगीतादिभिः कंचित्कालं क्रीडित्वा कक्षान्तरं प्रविश्य मुजीत-'गत्वा कक्षान्तरं त्वन्यत्समनुज्ञाप्य तं जनम् । प्रविशेगोजनार्थ च स्त्रीभिरन्तःपुरं सह ॥' इति (मनुः ८१२२४) स्मरणात् । ततोऽविस्मरणार्थ यथाशक्ति स्वाध्यायं पठेत् ॥ ३३० ॥
संविशेत्तूर्यघोषेण प्रतिबुद्ध्येत्तथैव च ।
शास्त्राणि चिन्तयेद्बुद्ध्या सर्वकर्तव्यतास्तथा ॥३३१ ॥ तदनन्तरं तूर्यशङ्खघोषेण संविशेत्स्वप्यात् । तथैव तूर्यादिघोषेण प्रतिबुद्ध्येत्। प्रतिबुद्ध च शास्त्रविद्भिर्विश्वासिभिः सह एकाकी वा पश्चिमे यामे शास्त्राणि चिन्तयेत् सर्वकर्तव्यताश्च सर्वकार्याणि च । एतच्च स्वस्थं प्रत्युच्यते । अस्वस्थः पुनः सर्वकार्येष्वन्यं नियोजयेत् । यथाह मनु:-'एतद्वृत्तं समातिष्ठेदरोगः पृथिवीपतिः । अस्वस्थः सर्वमेवैतन्मत्रिमुख्ये निवेशयेत् ॥' इति ॥ ३३ ॥
प्रेषयेच्च ततश्चारान्स्वेष्वन्येषु च सादरान् । ऋत्विक्पुरोहिताचार्यैराशीभिरभिनन्दितः॥ ३३२ ॥ दृष्ट्वा ज्योतिर्विदो वैद्यान्दद्याद्वां काञ्चनं महीम् ।..
नैवेशिकानि च ततः श्रोत्रियेभ्यो गृहाणि च ॥ ३३३ ॥ अनन्तरं तत्रस्थ एव विश्वस्तान्स्वान् चारान् दानमानसत्कारैः पूजितान्तेषु
या० १२
For Private And Personal Use Only