________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राजधर्मप्रकरणम् १३ ] मिताक्षरासहिता ।
१०१
रम्यं रमणीयं अशोकचम्पकादिभिः । पशव्यं पशुभ्यो हितं पशुवृद्धिकरम् । आजीव्यमुपजीयं कन्दमूलपुष्पफलादिभिः । जाङ्गलं यद्यप्यहपोदकतरुपर्वतोद्देशो जाङ्गलस्तथाप्यत्र सेजलतरुपर्वतो देशो जाङ्गलशब्देनाभिधीयते तं देशमावसेदधिवसेत् । तत्रैवंविधे देशे जनानां कोशस्य सुवर्णादेरात्मनश्च रक्षणार्थं दुर्गं कुर्वीत । तच्च षड्विधम् । यथाह मनुः (७।७० ) - ' धेन्वदुर्ग मही. दुर्गम दुर्गं वार्क्षमेव वा । नृदुर्गे गिरिदुर्गं वा समाश्रित्य वसेत्पुरम् ॥' इति ३२१
तत्र तत्र च निष्णातानध्यक्षान्कुशलाञ्शुचीन् । प्रकुर्यादाय कर्मान्तव्ययकर्मसु चोद्यतान् ॥ ३२२ ॥
किंच । तत्र तत्र धैर्मार्थकामादिषु अध्यक्षान् योग्यानधिकारिणः प्रकुर्यान्नियुञ्जीत । यथाहुः 'धर्मकृत्येषु धर्मज्ञानर्थकृत्येषु पण्डितान् । स्त्रीषु क्कीबान्नियुञ्जीत नीचान्निन्द्येषु कर्मसु ॥' इति । कीदृशान् । निष्णाताननन्यव्यापारान् । कुशलान् तत्तद्व्यापारचतुरान् । शुचीन् चतुर्विधोपधाशुद्धान् । आयकर्मसु सुवर्णाद्युत्पत्तिस्थानेषु व्ययकर्मसु सुवर्णादिदानस्थानेषु च उद्यताननलसान् । चशब्दात्प्राज्ञत्वादिगुणयुक्तान् । उक्तंच - 'प्राज्ञत्वमुपधाशुद्धिरप्रमादोऽभियुक्तता । कार्येषु व्यसनाभावः स्वामिभक्तिश्च योग्यता ॥' इति ॥ ३२२ ॥
'भोगांश्च दद्याद्विप्रेभ्यो वसूनि विविधानि च' इति सामान्येन स्वस्वदानमुक्तम्, इदानीं नृपाणां विक्रमार्जितस्य दाने फलातिशयमाह -
नातः परतरो धर्मो नृपाणां यद्रणार्जितम् ।
विप्रेभ्यो दीयते द्रव्यं प्रजाभ्यश्चाभयं सदा ॥ ३२३ ॥ विप्रेभ्यो दीयते ।
अस्मादुत्कृष्टतमो धर्मो नृपाणां न विद्यते यद्वणार्जितं द्रव्यं यच्च प्रजाभ्योऽभयदानम् ॥ ३२३ ॥
9
1
रणार्जितं देयमित्युक्तं द्रव्यार्जनाय रणे प्रवृत्तस्य विपत्तिरपि संभवतीति न धर्मो नाप्यर्थ इति ततो निवृत्तिरेव श्रेयसीत्यत आह
य आहवेषु वध्यन्ते भूम्यर्थमपराङ्मुखाः । अकूटैरायुधैर्यान्ति ते स्वर्गं योगिनो यथा ॥ ३२४ ॥
ये भूम्याद्यर्थमाहवेषु प्रवृत्ता अपराङ्मुखा अभिमुखा वध्यन्ते मार्यन्ते ते
१ समजल क. २ धन्वदुर्ग असंवेष्टितं चतुर्दिशं पञ्चयोजनमनुदकम् । महीदुर्ग पाषाणेष्टकायुतद्वादशहस्तोच्छ्रितेन युद्धार्थमुपरिभ्रमणयोग्येन सावरणगवाक्षादियुक्तेन प्राकारेण समन्ताद्वेष्टितं सद्वारम् । जलदुर्गमगाधोदकेन समन्ततो वेष्टितम् । वार्क्ष वहिः सर्वतो योजनमात्रं व्याप्य तिष्ठन्महावृक्षकण्टकिगुल्मलताद्याचितम् । नृदुर्गे चतुर्दिगवस्थायिहस्त्यश्वरथयुक्त बहुपादातरक्षितम् । गिरिदुर्ग सर्वतः पृष्ठमतिदुरारोहं संकोचैकमागोंपेतं अन्तर्नदीप्रस्रवणाद्युदकयुक्तं बहुसस्योत्पन्नक्षेत्र वृक्षान्वितम् ३ धर्मादियादिषु ग. ४ ज्यायसी ग.
For Private And Personal Use Only