________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मगधम्यम्
१५५
अथ परमात्मनो जीवात्मनां निःसरणं संसारः, तस्मिन्नेव लयो मुक्तिरिति चेत्, न । तेषां तस्मादभेदे करय मुक्तिः संसारो वा ? अभेदे वा द्वैतहानिरिति । तथा विद्यापरिच्छिन्नात्मप्रदेशानां मुक्तिरविद्यापरिच्छिन्नात्मप्रदेशानां संसार: इत्यत्राप्येतदेव दूषणमुद्यन् । परमा गवस्तु भित्लादेः कार्यस्योपादानकारणं कार्यपरिमाणाधीनपरिमाणस्य कारणस्योपलब्धेः । न च परमात्मा, तस्य व्यापकत्वात्, न । चामूर्तोपादानसमवेतं मूर्त्तनुत्पद्यमानं दृष्टमिति । यदि चानेकम गुपरिमाणञ्चोपादानं परमात्मेति स्यात्, संज्ञाभेदमात्रम् । परमाणवस्तु पूर्वमेव व्यवस्थापिताः । यच्चैकत्वप्रतिपादकं वाक्यं तःपरमात्मापेक्षया व्याख्येयम् । तस्य हि कार्यानुमानेन पूर्वमेव व्यवस्थापनात् । यच्चेदम् "एक एवायमात्मा देहे देहे व्यवस्थित :'' इति, एकस्मिन् शरीरेऽनेकत्वप्रतिषेधार्थमेतत् । तथा टेकस्मिञ्छरीरेऽनेक विज्ञानमात्मेति शाक्या 10 मन्यन्ते तत्प्रतिषेधार्थ प्रतिशरीरमेको नानेकः, तथा नानात्वप्रतिपादकमेव वाक्यमस्तीत्यलमतिजल्पितेन ।
* पृथक्त्वमप्यत एव इति । यत एव नानात्वमत एव नानापृथक्त्वम् । तथा चात्मेति वचनात् परममहत्परिमाणम् इति। “विभवान्महानाकाशस्तथा चात्मा" (वै० सू० ७।११२२) इति सूत्रं दर्शयति । यथा विभवान्महानाकाशस्तथात्मापीति 15 विभुत्वादेव परममहत्त्वं सिद्धम् । अथ शरीरपरिमाणत्वादात्मनोऽसिद्धं परममहत्त्वम् । तथा चाल्पशरोरेऽल्पो महति महानात्मेति । न । शरीरव्यतिरेकेणात्मनोऽस्तित्वे प्रमाणमस्तीति ।
नन्वेतस्मिन् पक्षे सङ्कोचविकाशधर्मकत्वाद बालशरीरेऽप्यात्मनो विनाशे वृद्धावस्थायां नानात्मा सम्पद्यत इत्यन्यत्वे स्मरणं न स्यात् । न च पूर्वपरिमाणस्या- 20 निवृत्तावुत्तरपरिमाणेन शक्यं भवितुमिति पूर्वपरिमाणस्याश्रयविनाशादेव निवृत्तिः ।
न च व्यापकस्यामूर्त्तत्त्वे गमनं सम्भवतीति स्वर्गादिस्थानेषु शरीरसम्बन्धानुपपत्तावुपभोगो न स्यादत इष्यत एवं गमनम् । तहि मूर्त्तत्वे सति महापरिमाणत्वाद् यत उत्पत्तिस्तत् कारणं वाच्यामिति भूनचैतन्यवत् प्रतिषेधः ।
तथा धर्माधर्मयोरात्मगुणत्वात् तदाश्रयस्याव्यापकत्वे न स्यादग्नेरूद्धज्वलनं 27 वायोस्तिर्यगमनमगुमनसोस्त्वाद्यं कर्मेति, तयोः स्वाश्रयसंयोगापेक्षित्वात् । यथा प्रयत्नो हस्तकर्मण्यात्मसंयोगापेक्षस्तथा धर्माधर्मावात्मसंयोगं विना न कर्म कुर्याताम्, आत्मगुणत्वात् । न च तत्रान्यत् कारणमस्तोति स्वाश्रयसंयोगापेक्षोऽदृष्ट एव कारणम् ।
For Private And Personal Use Only