________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५४
व्योमवती
लैङ्गिकज्ञाने । तथैकस्मिन्नपि शरीरे 'मम पादे वेदना, शिरसि वेदना' इत्येकत्वादात्मनः प्रतिसन्धानं दृष्टम् । न च जन्मान्तरशरारानुभूते गर्भशरीरानुभूते च स्मरणवद् अश्वादिशरीरोपलव्धेऽप्यस्मरणं युक्तम्, गर्भशरीरानुभवस्यापटुत्वाज्जन्मान्तरसंस्कारस्य च मरणदुःखेनाभिभवात् ! न चैवमश्वादिशरीरानुभूतेषु स्मरणे कारणमस्ति । ।
अथ भेरसद्भावे प्रमाणानुपपत्तेः सर्वमेकमिति कल्प्यते ? न। प्रत्यक्षेणेव परस्परव्यावृत्तात्मनां पदार्थानां भेदप्रतिभासाद् विधिप्रतिषेधग्राहकञ्च प्रत्यक्ष निर्विकल्पकज्ञानेन पदार्थानां भेदप्रतिभासे सति एतस्मादयं भिन्नः' इति सविकल्पज्ञानोत्पत्त्यभ्युपगमान्नेतरेतराश्रयत्वम्, अनवस्था वा। अनियमेन तु विशेषणविशेष्ययोविधिप्रतिषेधयोग्रहणमिष्टम् । यदत्र विशेषणं तत् पूर्व गृह्यते विशेष्यन्तु पश्चात् । अनियम [ ? त ] स्तु विशेषणविशेष्यभाव इति ।
___ ननु चात्र भेदो व्यावृत्तिरितरेतराभाव इत्यभ्युपगमे व्यावृत्तेर्भेद: कथं स्वयं व्यावृत्तिरूपत्वात् । तद्विपरीतास्तु व्यावृत्तिमपेक्षन्ते। अथायं भेदप्रतिभासोऽविद्यासमारोपित इति चेत्, न । आत्मव्यतिरेकेण तदसम्भवात् । व्यतिरेके तु एकत्वनिवृत्तिः। यदि च विद्यानिवृत्तिरूपा स्यादविद्या, सा कथं तुच्छस्वभावतया भेदेन व्यवहार जनयेत् ? न च बाधकानुपपत्तेर्भेदप्रतिभासो भ्रान्तः। नापि कल्पितरूपाणां वास्तवार्थक्रियाजनकत्वं न्याय्यम्। रज्ज्वां तु सर्पज्ञानाद् वास्तवादेव भक्षणं [ ? द्रवणं ] कार्यं न कल्पितार्थादिति । न च सर्वस्यैकत्वे प्रमाणमस्तीति कथं विद्यानिबन्धनमेकत्वज्ञानम् ? यथा च प्रमाणं विना सर्वस्यैकत्वम् एवं नानात्वमपि स्यात्, प्रमाणाभावस्योभयत्राविशेषात् । अथास्त्येकत्वे प्रमाणमागम इति चेत् । एकत्वनिवृत्तिः प्रमाणादेवस्तिवभेदत्वात् । अभेदे तु प्रमाणप्रमेयव्यवस्थानुपपत्तिरिति ।
कथं स्वयंज्योतिरेवायमात्मेति ? अथामी पदार्था यदि परमात्मनो व्यतिरेकिण: कथं प्रकाशन्ते, अप्रकाशस्य प्रकाशायोगात् । अथ प्रकाशन्ते न परमात्मव्यतिरेकिणः, तस्यैव प्रकाशस्वरूपत्वादिति चेत्, नैतदेवम् । विभिन्न स्वरूपसम्बन्धिनां प्रत्यक्षादिप्रमाणः संवेदनात् प्रकाशरूपता भावस्वरूपसम्बन्धित्वम्, बोधरूपता वा रयात् । सा तुपदार्थेषु न सम्भवतीत्यसत्वेन परमात्मनोऽन्यसत्त्व प्रसङ्गः, पदार्थान्तरस्वरूपस्य पदार्थान्तरे सत्त्वाविशेषात् । यदि चेक एव स्यादात्मा, तस्यैकत्र विमोक्षे सर्वत्र तथाभावः इत्यप्रयाससाध्यो मोक्षः स्यात् । तथा कस्यचिदमुक्तावन्यस्याप्यमुक्तिरिति सर्वेषामनिर्मोचप्रसङ्गः।
15
20
For Private And Personal Use Only