SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १५०५ (B) जीतमिति५ । तत्र सति आगमादौ व्यवहारे यदि उत्परिपाट्या उत्क्रमेण व्यवहरति तदा प्रायश्चित्तं चत्वारो गुरुकाः। इयमत्र भावना- आगमे विद्यमाने यद्यन्येन सूत्रादिना व्यवहरति तदा चतुर्गुरुकम्। यदि पुनरागमो न विद्यते तदा श्रुतेन व्यवहर्त्तव्यम्। श्रुते विद्यमाने यद्याज्ञादिभिर्व्यवहरति तदा चतुर्गुरुकं प्रायश्चित्तम्। यदा तु श्रुतमपि न विद्यते तदा आज्ञया व्यवहर्त्तव्यम्। आज्ञायां विद्यमानायां यदि धारणया प्रस्थापयति तदा चतुर्गुरुकम्। आज्ञाया अभावे धारणया व्यवहर्त्तव्यम्। यदि पुन: धारणायां सत्यां जीतेन व्यवहरति तदा चतुर्गुरुकम्। धारणाया अभावे जीतेन व्यवहर्त्तव्यमिति। तत्र "से तत्थ आगमे सिया" इत्यादिकस्य सूत्रावयवस्यायमर्थः- तत्र तस्मिन् व्यवहारपञ्चकमध्ये से तस्य साधोरागम: स्यात् तर्हि स आगमेन व्यवहारं प्रस्थापयेत् व्यवहरेत्, न शेषैः सूत्रादिभिः ॥ ३८६२ ॥ एतदेवाहआगमववहारी आगमेण ववहरइ सो न अन्नेणं। न हि सूरस्स पगासं, दीवपगासो विसेसेइ ।। ३८६३ ॥ स आगमव्यवहारी आगमेन व्यवहरति, न अन्येन श्रुतादिना, तस्य ततो हीनत्वाद्। सूत्र ३ गाथा ३८६०-३८६३ पञ्चव्यवहाराः |१५०५ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy