________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
दशम
उद्देशक:
१५०५ (A)
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनन्तरसूत्रे प्रतिमाऽभिहिता, तां च प्रतिमां प्रतिपद्यते बह्वागमिकः । अयमपि पञ्चविधोऽपि व्यवहारः खल्वागमः, तत आगमप्रस्तावात् प्रतिमासूत्रादनन्तरं व्यवहारसूत्रमवाचि। सर्वं वेत्यादि, वाशब्दः सम्बन्धस्य प्रकारान्तरतोपदर्शने, सर्वं प्रवचनं प्रावचनिकश्च व्यवहारविषयस्थं व्यवहार - विषयान्तर्गतम्, अतोऽवश्यं व्यवहारो वक्तव्य इति व्यवहारसूत्रम् ॥ अथवा प्रतिमायां स्खलितस्य को व्यवहारः किं कर्त्तव्यम् ? इति प्रश्नमाशङ्क्य स व्यवहारः पञ्चविध इत्यादिकमिदं सूत्रमुपन्यस्तम् । यदि वाऽनन्तरसूत्रे 'प्रतिमाः प्रतिपद्यते' इत्युक्तम्, तां च प्रतिपद्यते व्यवहारविधिज्ञो नेतरः, इति प्रतिमासूत्रादनन्तरं व्यवहारसूत्रमित्येष व्यवहारसूत्रस्य सम्बन्धः । सूत्राक्षरसंस्कारः सुप्रतीतो विशेषव्याख्यां तु भाष्यकृत् करिष्यति ॥ ३८६० ॥ ३८६१ ॥
तत्र " से तत्थ आगमे सिया आगमेणं ववहारं पट्ठवेज्जा" इत्यादि अस्य व्याख्यानमाहसो पण पंच विगप्पो, आगम१ सुयर आण३ धारणा ४ जीए५ । संतम्मि ववहरंते, उप्परिवाडी भवे गुरुगा ॥ ३८६२ ॥
स पुनः व्यवहारः पञ्चविधः प्रज्ञप्तः । तद्यथा - आगमः १ श्रुतम् २ आज्ञा३ धारणा४
For Private And Personal
܀܀܀܀
सूत्र ३
गाथा
| ३८६०-३८६३ पञ्चव्यवहाराः
१५०५ (A)