________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः १४९५ (A)
गणयामि'? इत्यवगणय्य सम्यगध्यास्ते, न प्रतिवचनं ददाति । एतद् द्रव्यसहनम्। भावसहनं यत् साधुः द्वादशविधानप्युपसर्गान् कर्मविनिर्जरणार्थं सम्यगध्यास्ते ॥ ३८२६ ।।
एतदेवाहसासुससुरोवमा खलु, दिव्वा दियरोवमा य माणुस्सा। दासत्थाणी तिरिया, तह सम्मं सोऽहियासेइ ॥ ३८२७॥ दारं ४।
तथा वधूदृष्टान्तोक्तप्रकारेण श्वश्रूश्वशुरोपमान् दिव्यानुपसर्गान्, देवरोपमान् मानुषान् उपसर्गान्, दासस्थानीयान् तैरश्चान् उपसर्गान् सम्यगध्यास्ते ४ ॥ ३८२७॥
सम्प्रति "दुविहे व" इत्यस्य व्याख्यानार्थमाहदुहा वेते समासेण, सव्वे सामन्नकंटगा। विसयाणुलोमिया चेवर, तहेव पडिलोमिया२ ॥ ३८२८॥
अथवा एते उपसर्गाः श्रामण्यस्य कण्टका इव श्रामण्यकण्टकाः सर्वे समासेन द्विधा 8 प्रतिपादिताः। तद्यथा-विषयानुलोमिका इन्द्रियविषयानुलोमिकाः१ तथैव प्रातिलोमिकाः
गाथा ३८२५-३८३० उपसर्गसहने दृष्टान्तादिः
| १४९५ (A)
For Private And Personal