________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sha Kiloslasagarsuri Gyanmandir
श्री
४
/
/
व्यवहारसूत्रम्
दशम
उद्देशकः १६७४ (A)
एष धारणाव्यवहारः कीदृशे पुरुषे प्रयोक्तव्यः? सूरिराह-भण्यते यादृशे गुणसम्पन्ने प्रयोक्तव्यः, तं वक्ष्यमाणं शृणु ॥ ४४८८॥
तमेवाहपवयणजसंसि पुरिसे अणुग्गहविसारए तवस्सिम्मि । सुस्सुयबहुस्सुयम्मि य विवक्कपरियागबुद्धिम्मि ॥ ४४८९॥ [जी.भा.६६०] |
प्रवचनं-द्वादशाङ्गं श्रमणसङ्घो वा, तस्य यशः- कीर्तिमिच्छति य : स प्रवचनयशस्वी तस्मिन् । तथा यो दीयमानं प्रायश्चित्तं दीयमानं व्यवहारं त्वनुग्रहं मन्यते सोऽनुग्रहविशारदस्तस्मिन् तपस्विनि। तथा सुश्रुतं-शोभनमाकर्णितं बहु श्रुतं येन स सुश्रुतबहुश्रुतः। किमुक्तं भवति? यस्य बह्वपि श्रुतं न विस्मृतिपथमुपयाति स सुश्रुतबहुश्रुतः, अथवा बहुश्रुतोऽपि सन् | यस्तस्योपदेशेन वर्त्तते स मार्गानुसारिश्रुतत्वात् सुश्रुतबहुश्रुतः, तस्मिन्। तथा विशिष्टःविनयौचित्यान्वितो वाक्यपरिपाको बुद्धिश्च यस्मिन् स विवाक्यपरिपाकबुद्धिः, तस्मिन् । पुरुषे प्रयोक्तव्यः ॥ ४४८९ ॥
एतदेवाह
भवा बहश्रतोऽपि सन् ७४४८९-४४९५
गाथा
धारणाव्यवहारयोग्यः
|१६७४ (A)
For Private And Personal