SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shqi Kailas sagarsuri Gyanmandir श्री व्यवहार सूत्रम् छेदे अर्द्धमङ्गलस्य। विंशतौ विंशतिरात्रिन्दिवछेदे 'त्रिभागोनमङ्गुलभाजनस्य छिन्दन्तु'। पञ्चविंशतौ पञ्चविंशति रात्रिन्दिवे छेदे 'षड्भागोनमङ्गुलम्'। मासे मासप्रमाणे छेदे प्राप्ते । 'परिपूर्णमेकमङ्गलम्'। चतुर्मासे 'चत्वार्यङ्गुलानि', षण्मासे 'षडङ्गुलानि छेद्यानि' सन्दिशति। दशम एवमेते यथा क्रमेण छेदविकल्पा: सन्देशा ज्ञातव्याः॥ उद्देशकः १६७२ (A) ___ गच्छंतु व तस्स साहुणो मूलं [गा.४४७८] इति यदि मूलं प्रायश्चित्तमापन्नो भवति तदैवं IN| सन्दिशति-'योऽन्यो दूरे 'साधु:' गच्छाधिपतिर्विहरति तस्य 'मूलं' समीपं गच्छन्तु', तस्य | समीपं गत्वा मूलं प्रायश्चित्तं प्रतिपद्यन्तामिति भावः । अव्वावडा व गच्छे इति अथानवस्थाप्यं प्रायश्चित्तमापन्नस्तत एवं कथयति सन्देशम्। यथा- 'गच्छे अव्यापृता [भवत]'। किमुक्तं भवति ? किञ्चित् कालं गच्छस्य वर्त्तमानिकामवहन्तस्तिष्ठतु। अब्बिइया वा पविहरंतु इति पाराञ्चितप्रायश्चित्तापत्तौ पुनरेवं सन्दिशति-'किञ्चित् कालम् ‘अद्वितीयकाः' एकाकिनः प्रविहरन्तु' ॥ ४४७९ ॥ ४४८० ॥ तदेवं दर्पण सेविते प्रायश्चित्तम् । अधुना कल्पे यतनया सेविते प्राह - गाथा ४४८१-४४८८ धारणाव्यवहारः १६७२ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy