________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१६४४ (B)
www.kobatirth.org
एहिं कारणेहिं, पंडियमरणं तु काउमसमत्था ।
ऊसास गद्धपट्टं, रज्जुग्गहणं व कुज्जाहि ॥ ४३६९॥
Acharya Shri Kailashsagarsuri Gyanmandir
एतैः अनन्तरोदितैर्व्यालभक्षणप्रभृतिभिः कारणैः पण्डितमरणं यथोक्तभक्तप्रत्याख्यानरूपं कर्तुमसमर्था उच्छ्वासनिरोधं गृध्रपृष्ठं रज्जुग्रहणं वा कुर्युः ॥ ४३६९ ॥
अथ किमिति ते व्यालभक्षितादय आत्मानं घातयन्ति ? उच्यते
अणुपुव्विविहारीणं, उस्सग्गनिवाइयाण जा सोही । विहरंतए न सोही, भणिया आहारलोवेण ॥ ४३७० ॥ [जी.भा.५१०]
ये व्याला-ऽच्छभल्लादिकृतव्याघातरहितास्तेषाम् आनुपूर्व्या ऋतुबद्धे मासकल्पतो वर्षावासे चतुर्मासकल्पेन विहारिणाम् उत्सर्गनिपातिनाम् उत्सर्गेणैव संयममनुपालयतां या चारित्रशोधिर्भवति सा व्याला- ऽच्छभल्लादिव्याघातवति विहरति न भणिता, शोधिर्न भवतीत्यर्थः। कस्मान्न भवति ? इत्यत आह- आहारलोपेन ते हि व्यङ्गत्वादिना कारणेन न
For Private And Personal
गाथा
| ४३६७-४३७४ इङ्गिनीमरणम्
१६४४ (B)