________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् दशम उद्देशकः
܀܀܀܀܀܀܀܀܀
१६३१ (A)
तस्य कृतभक्तप्रत्याख्यानस्य देहवियोगः क्षिप्रं वा भवेद् अथवा कालहरणेन तथापि स्वस्वनियोगोधुक्तैस्तैर्भवितव्यम् । एवं च द्वयानामपि प्रतिचारकाणां प्रतिचर्यस्य च प्रवर्द्धमाना निर्जरा कर्मनिर्जरा भवति। गच्छो ह्येतदर्थं परस्परोपकारेणोभयेषां निर्जरा स्यादित्येवमर्थमासेव्यते ॥४३१७ ॥
गतमपरितान्तद्वारम् १८। अधुना निर्जराद्वारमाहकम्ममसंखेजभवं, खवेइ अणुसमयमेव आउत्तो । अन्नतरगम्मि जोगे, सज्झायम्मी विसेसेणं ॥ ४३१८॥
[जी.भा.४५४,नि.भा.३९०२] अन्यतरस्मिन्यो योगे प्रतिलेखनादिरूपे आयुक्तः उपयुक्तस्सन् अनुसमयमेव प्रतिक्षणमेव कर्म असङ्ख्येयभवोपार्जितं क्षपयति। कर्मणोऽनन्तकालमवस्थानाभावादसङ्ख्येयभवमित्युक्तम्। स्वाध्याये पुनरायुक्तस्सन् विशेषेण कर्म क्षपयति ॥ ४३१८ ॥ १. गतम = परित्रा' पु.प्रे.मु. सर्वत्र॥
गाथा ४३१४-४३२१
निर्जरा
|१६३१ (A)
For Private And Personal