________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१६२८ (A)
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गाढतरं ध्यानमुपगतो भवति । निर्यापकाश्चिन्तयन्ति — वयमप्येवमभ्युद्यतमरणस्य तीरं प्राप्त भविष्यामः । यस्मादेते चरमाहारदाने गुणास्तस्मादवश्यं स दातव्यः ॥ ४३०७ ॥
अथ तृष्णाव्यवच्छेदे केनाऽऽकारेण तस्य वैराग्यभावना प्रवर्त्तते ? इत्याहकिं व तं नोवभुत्तं मे, परिणामासुई सुई ?
दिसारो सुहं झाइ, चोयणेसेव सीयतो ॥ ४३०८ ॥ [ जी.भा.४४२, नि. भा. ३८९०]
चरमाहारे प्रदत्ते तृष्णाव्यवच्छेदे च जाते स एवं वैराग्यमापन्नश्चिन्तयति - किं वा तदस्ति भोज्यं यत् पूर्वं गृहवासे प्रव्रज्यापर्याये वा मया नोपभुक्तम् ? परं शुच्यपि तद् भुक्तं परिणामात् परिणामवशेनाऽशुचि सञ्जायते । तथा आहारसंज्ञोपयुक्तो जीवः कर्मणो बन्धको भवति, आहारगृद्धेर्निवृत्तः सुखभागी । एवं प्रत्यक्षत आगमतश्च दृष्टसारः उपलब्धतत्त्वः सुखं धर्मध्यानं ध्यायति । तथा यदि चरमाहारे प्रदत्ते भूयस्तत्रैवानुबन्धतः प्रसीदति तदैतस्य तथा सीदतः एषैव अधिकृतश्लोकार्थरूपा चोदना प्रज्ञापना कर्त्तव्या ॥ ४३०८ ॥
'झोसिज्जइ सो से तह जयणाए चउव्विहाहारो' [गा. ४३०६] इत्यस्य व्याख्यानमाह
For Private And Personal
܀܀܀
गाथा ४३०८-४३१३ आहार
स्तोकतादिः १६२८ (A)