SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देश : १६१२ (B) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir कर्त्तव्या, ततो यदि यैर्ज्ञातो दृष्टश्च ते वन्दका समागच्छेयुस्तदा स तेषां न दर्शयितव्यः, किन्तु भण्यन्ते - 'बहिः स्थिताः यूयं वन्दध्वमिति । एवं बहिः स्थितं जनं वन्दापयेत् ॥ ४२६१ ॥ गतमन्यद्वारम् ९ । इदानीम् 'अनापृच्छाद्वारमाह ' अणापुच्छाए गच्छस्स, पडिच्छे तं जती गुरू । गुरुगा चत्तारि विन्नेया, गच्छमणिच्छंते जं पावे ॥ ४२६२ ॥ [ जी. भा. ३८९] गच्छस्यानापृच्छया यदि तं भक्तप्रत्याख्यातुकामं गुरुः प्रतीच्छति अभ्युपगच्छि तस्य प्रायश्चित्तं चत्वारो गुरुका विज्ञेयाः । गच्छे चानिच्छति स भक्तप्रत्याख्याता त् प्राप्नोति असमाधिप्रभृतिकं तन्निमित्तमपि तस्य प्रायश्चित्तम् । तस्मादवश्यं गच्छ आप्रष्टव्यः । किं कारणम् ? इति चेद्, उच्यते - गच्छसाधवः सर्वत्र परिभ्रमन्तो जानते, यथा- एतस्मिन् क्षेत्रे एतत् सुलभम्, एतद् दुर्लभम्, ततो गुरवः पृच्छन्ति - किमेतस्मिन् क्षेत्रे यानि कृतभक्तप्रत्याख्यानस्य समाधिकारकाणि द्रव्याणि तानि सुलभानि ? किं वा दुर्लभानि ?, तत्र यदि सुलभानि ततः स भक्तप्रत्याख्यानं प्रतिपाद्यते । अथ दुर्लभानि तर्हि प्रतिषिध्यते— 4 'अन्यत्र गत्वा प्रतिपद्यस्वेति' ॥ ४२६२ ॥ अनापृच्छायां दोषमाह For Private And Personal गाथा ४२६१-४२६५ अनापच्छापरीक्षाद्वारे १६१२ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy