________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम उद्देशकः
१६११ (A)
___ कलिङ्गेषु जनपदेषु काञ्चनपुरे नगरे बहुश्रुता बहुशिष्यपरिवाराः केचिदाचार्या विहरन्ति । तेऽन्यदा शिष्येभ्यः सूत्रपौरुषीमर्थपौरुषी च दत्त्वा संज्ञाभूमौ गताः । तत्र पथि गच्छन्तोऽपान्तरालेऽतिशयेन महतः पादपस्याध: काञ्चिद् देवतां स्त्रीरूपेण रुदन्ती पश्यन्ति । एवं द्वितीयदिनेऽपि । ततो गुरुभिर्जातशङ्कः पृष्टम् कस्माद् रोदिषि? । तया कथितम्-अहमेतस्य नगरस्याधिष्ठात्री, एतच्च सर्वं नगरमचिराजलप्रवाहेन विनक्ष्यति, अत्र च बहवः साधवः स्वाध्यायन्तो वर्तन्ते, ततो रोदिमि - कोऽत्र प्रत्ययः? इति पृष्टे सा प्राह- अमुकस्य क्षपकस्य पारणके क्षीरं रुधिरं भविष्यति, तच्च यत्र गतानां स्वभावीभूतं भविष्यति तत्र क्षेममवसातव्यमिति। एवमुक्त्वा असौ अगात्। द्वितीयदिने क्षपकस्य पारणके क्षीरं रुधिरीभूतम् । ततः समस्तस्यापि सङ्घप्रधानवर्गस्याऽऽमन्त्रणं पर्यालोचनम्। ततो नशनं समस्तस्यापि सङ्घस्येति ॥ ४२५८॥
यदि पुनरशिवाधुत्थाने ज्ञातेऽपि भक्तं प्रत्याख्यापयति तदा स गच्छः साधवः प्रवचनं च तेन त्यक्तम्
गाथा असिवादीहि वहंता, तं उवकरणं च संजया चत्ता।
१/४२५६-४२६० उवहिं विणा य छडणे, चत्तो सो पवयणं चेव ॥ ४२५९॥ दारं ८। || आभोगद्वारम्
[जी.भा.३८६]
|१६११ (A) १. निशीथभाष्ये ३८४७ गाथा इत्थम्- 'असिवादिकारणेहिं वहमाणा संजया परिच्चत्ता। उवधिविणासो जेछताण चत्तो स पवयणं चेवा॥'
+
For Private And Personal