________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम उद्देशकः
१६०२ (A)I
चतुर्थादिविषयं कृत्वा प्रथमं पारणकमायामेनोष्णोदकेन करोति, द्वितीयं पारणकं निर्विकृतिकेन, तृतीयं पुनरायामेन यथोक्तरूपेण,चतुर्थं निर्विकृतिकेन, एवमेकान्तरितं पारणकेष्वायामं करोति । कोटीसहितं-नाम प्रथमदिवसे अभक्तार्थः कृतः, द्वितीयेऽपि दिवसे पुनरभक्तार्थं कृत्वा पारयति, एतच्चतुर्थकोटीसहितं प्रत्याख्यानम्। एवं षष्ठाऽष्टमादिकोटीसहितान्यपि भावनीयानि । अथवाऽयमन्यो द्वितीयः प्रकार:- एकस्मिन् दिने चतुर्थं कृत्वा द्वितीये दिवसे पारयति, तृतीयदिवसे पुनश्चतुर्थं करोति, चतुर्थे दिवसे पारयति, एतच्चतुर्थकोटीसहितम्। षष्ठकोटीसहितमेवम्- षष्ठं कृत्वा पारयति, पुनः षष्ठं करोति ततः पारयति। एवमष्टमादिकोटीसहितान्यपि भावनीयानि। [परि]हावेतो आणुपुव्वीए इति, तस्मिन् द्वादशे वर्षे पारणकेषु यथाक्रममेकैकं कवलं हापयन् पारयति यावदेकं कवलम्। ततः शेषेषु पारणकेषु क्रमश एकेन सिक्थेनोनमेकं | कवलमाहारयति, द्वाभ्यां सिक्थाभ्याम्, त्रिभिः सिक्थैः, एवं यावदन्ते एकसिक्थमाहारयति। कस्मादेवं करोति? इति चेद् अत आह- यथा दीपे सममेककालं तैल-वर्त्तिक्षयो भवति तथा शरीराऽऽयुषोः समकं क्षयः स्यादिति हेतोः ॥ ४२२६ ॥
गाथा ४२२७-४२३२
संलेखना
|१६०२ (A)
For Private And Personal