________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
व्यवहारसूत्रम् दशम
उद्देशकः १५९४ (B)|
द्विविधा निर्यापकाः, तद्यथा- आत्मनः१ परस्य च ॥ ४२०० ।।
उभयानप्याहपातोवगमे इंगिणि, दुविहा खलु होंति आयनिजवगा । निजवणा उ परेण उ, भत्तपरिन्नाए बोधव्वा ॥ ४२०१॥ [जी.भा.३२१]
आत्मनिर्यापकाः खलु द्विविधा भवन्ति । तद्यथा पादपोपगमे१ इङ्गिनीमरणे२ च । परेण पुनर्निर्यापना भक्तपरिज्ञायां बोद्धव्या ॥ ४२०१ ।। पाओवगमं इंगिणि, दोण्णि वि चिटुंतु ताव मरणाई । भत्तपरिणाए विहिं, वोच्छामि अहाणुपुव्वीए ॥ ४२०२॥ [जी.भा.३२२] गाथा
४४१९९-४२०६ पादपस्येवोपगमो यस्य तत् पादपोपगमम्, इङ्गिनीमरणं च, द्वे अपि तावद् मरणे
| निर्यापकादिः तिष्ठताम्, पश्चाद् वक्ष्यमाणत्वात्। सम्प्रति भक्तपरिज्ञाया विधिमानुपूर्व्या वक्ष्यामि ॥ ४२०२॥ ४१५९४ (B)
प्रतिज्ञातमेव निर्वाहयति
For Private And Personal