________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् दशम
उद्देशकः १५८७ (A)
निर्ग्रन्थचिन्तायां बकुशः प्रतिसेवकः प्रतिसेवनाकुशील इत्येतौ द्वौ निर्ग्रन्थौ, संयतचिन्तायाम् इत्वरी इत्वरसामायिकवान् छेदः छेदोपस्थाप्यश्चेति द्वौ संयतौ यावत् तीर्थं तावद् अनुषजतः अनुवर्तेते, तेन ज्ञायते-अस्ति सम्प्रत्यपि प्रायश्चित्तम् ॥ ४१७३ ॥
गतमस्तीति द्वारमधुना “न दीसइ धणिएण विणे"ति व्याख्यानार्थमाहजड़ अस्थि न दीसंती केति करेंतऽत्थ धणियदिटुंतो । संतमसंते विहिणा, मोयंता दो वि मुच्चंति ॥ ४१७४॥ [तुला-जी.भा.२९१]
चोदकः प्राह-यद्यस्ति प्रायश्चित्तं ततः कस्मात् केचित् कुर्वन्तो न दृश्यन्ते ? । सूरिराहउपायेन कुर्वन्ति ततो न दृश्यन्ते । तथा चात्र धनिकेन दृष्टान्तः- धारके सत्यसति च गाथा विभवे तौ च धारकौ द्वावपि सद्विभवाऽसद्विभवौ विधिना मोच्यमानौ ऋणान्मुच्येते ॥ ४१७४ ॥
४४१६९-४१७६
प्रायश्चित्तएतदेव भावयति
संख्या
१५८७ (A)
१. इतोऽग्ने जीतकल्पभाष्ये २९२ गाथा इत्थम्- 'जह धणियो सावेक्खो णिखेक्खो चेव होइ [दविहो । घरणगसंतविभवो असंतविभवो य सो दुविहो।'
For Private And Personal