________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम उद्देशकः
१५८१ (A)
अर्थं प्रतीत्य किञ्चित् सूत्रमनागतमेव भवति, किञ्चित् पुनः सूत्रं स्वस्थानगतमर्थमामृशति, "विचित्रा सूत्रस्य प्रवृत्तिः" इति वचनात् । अर्थोऽपि कश्चित् सूत्रमनागतमेवाऽऽमृशति, एतच्च सम्यग् जानन्ति चतुर्दशपूर्वधराः, नान्ये, ततः सम्प्रति सूत्रार्थस्याप्यपरिज्ञानान्न प्रायश्चित्तदानशुद्धिः, तदभावाच्च निर्यापकाणामप्यसिद्धिः ॥ ४१४९ ॥
सम्प्रति "देंता वि न दीसंती" इत्यादिव्याख्यानार्थमाहदेंता वि न दीसंती, मास चउमासियातो सोहीतो । कुणमाणा य विसोहिं, न पासिमो संपयं केई ॥४१५०॥ [जी.भा.२६०] |
मासिकी चातुर्मासिकीम् , उपलक्षणमेतत्, पञ्चमासिक्यादिकामपि वा शोधिं सम्प्रति केचिद् ददतोऽपि न दृश्यन्ते, नापि कांश्चित् मासिकी चातुर्मासिकी वा [ विशोधिं ] कुर्वाणान् सम्प्रति पश्यामः ॥४१५० ॥
सोहीए य अभावे, देंताण करेंतगाण य अभावे । वट्टइ संपइ काले, तित्थं सम्मत्त-नाणेहिं ॥ ४१५१॥ [जी.भा.२६१]
गाथा ४१४६-४१५३
आगमव्यवहारीणामभावेऽपि प्रायश्चित्तम्
१५८१ (A)
For Private And Personal