________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१५७८ (B)
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
षट् स्विति कायेषु व्रतेषु वा, तथा आलोचनायाः सम्बन्धिषु गुणेषु दशसु जातिसम्पन्नप्रभृतिषु । उक्तं च स्थानाङ्गे - "दसहिं ठाणेहिं सम्पन्ने अरिहति अन्नदोसमालोइत्तए । तं जहा - जातिसंपन्ने कुलसंपन्ने" इत्यादि । तथा 'षट्सु स्थानेष्विति' षट्स्थानपतितेषु स्थानेषु ये अपरोक्षा साक्षाद्वेदितारः ॥ ४१४०॥
कियन्ति षट्स्थानपतितानि स्थानानि ? इति अत आह—
संखादीया ठाणा, छहि ठाणेहि पडियाणि ठाणाणि ।
जे संजया सरागा, सेसा एक्कम्मि ठाणम्मि ॥ ४१४१ ।। [ तुला. जी. भा. २५३]
'षट्सु स्थानेषु' अनन्तभागवृद्धाऽसङ्ख्यातभागवृद्ध-सङ्ख्यातभागवृद्ध-सङ्ख्यातगुणवृद्धाऽ सङ्ख्यातगुणवृद्धा ऽनन्तगुणवृद्धेषु यानि पतितानि स्थानानि तेषां सम्बन्धिनो ये सरागाः संयतास्ते वेदितव्याः, षट्स्थानपतितेषु स्थानेषु सरागसंयता वर्त्तन्ते इति भावः । तेषां च तानि षट्स्थानपतितानि स्थानानि संयमस्थानानि सङ्ख्यातीतानि असङ्ख्येयलोकाकाशप्रदेशप्रमाणानि । अत एव सरागसंयतानां केषाञ्चिद् वर्द्धते, केषाञ्चिद् हीयते, केषाञ्चिद् वर्द्धते हीयते च । ये तु शेषा वीतरागसंयतास्ते एकस्मिन् स्थाने । तथाहि - न तेषां चारित्रं वर्द्धते नापि
For Private And Personal
गाथा ४१३९-४१४५ आगम
व्यवहारिस्वरूपम्
१५७८ (B)