________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः १५७५ (B
तस्सत्ती तस्सेव उ, चरित्तधम्मस्स वुड्डिहेतुं तु। वारेयऽणेसणादी, न य गिण्हे सयं हियट्ठाए ॥ ४१२८॥ [जी.भा.२३१]
'तस्सेव हि यट्ठ मब्भुढे ' [गा. ४१२३] इति तस्येति तस्यैव चारित्रधर्मस्य ४) वृद्धिहेतोरनेषणादि वारयति हितार्थमभ्युत्तिष्ठतीति, हितार्थाय न च स्वयमनेषणादि गृह्णाति।।
हितार्थायेत्युपलक्षणम्, तेन हिताय सुखाय क्षमाय निःश्रेयसाय आनुगामिकायाभ्युत्तिष्ठतीति द्रष्टव्यम् ॥ ४१२८॥ ततो हितादिपदानां व्याख्यानमाह
जं इह-परलोगे वा हियं सुहं तं खमं मुणेयव्वं। निस्सेयस-मोक्खाय उ, अणुगामऽणुगच्छते जं तु ॥ ४१२९॥
[जी.भा.२३२] यद् यस्मात् कारणात् तदभ्युत्थानमिहलोके परलोके वा हितं तेन हितमित्युच्यते। सुखम्, परलोके सुखकरणात्। क्षमम् ऐहिक-पारत्रिकप्रयोजनक्षमत्वात् । निःश्रेयसं कल्याणकारित्वात्। अनुगामि यद् मोक्षाय अनुगच्छति ॥ ४१२९ ॥
गाथा ४१२३-४१२९ | विक्षेपणाविनयादिः
|१५७५ (B)
For Private And Personal