________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम उद्देशकः १५७४ (A)
उद्युक्तस्सन् शिष्यं सूत्रं ग्राहयति, एष सूत्रग्राहणाविनयः। तथा प्रयत्नेन शिष्यमर्थं श्रावयति, एषोऽर्थश्रावणविनयः। परिणामकादीनां यद् यस्य भवति योग्यं तत् तु तस्य हितं सूत्रतोऽर्थतश्च ददाति। एष हितप्रदानविनयः । तथा निःशेषम् [ अपरिशेषम् ] किमुक्तं भवति ? यावत् समाप्तं भवति तावद् वाचयति एष निःशेषवाचनाविनयः । उपसंहारमाहएष चतुष्प्रकारः खलु श्रुतविनयः । अत ऊर्वं विक्षेपणाविनयं वक्ष्ये ॥ ४१२१ ॥ ४१२२ ॥ प्रतिज्ञातमेव करोतिअद्दिढें दिटुं खलु१, दिटुं साहम्मियत्तविणएणं २। चुयधम्म धम्मे ठावइ ३, तस्सेव हियट्ठमब्भुटे४ ॥ ४१२३॥ [जी.भा.२२६]
अदृष्टं अदृष्टधर्माणं दृष्टमिव दृष्टपूर्वमिव धर्म ग्राहयति १ । दृष्टं दृष्टपूर्वं श्रावकं साधर्मिकत्वविनयेन विनयति, प्रव्राजयतीत्यर्थः २। तथा च्युतधर्म धर्मात् परिभ्रष्टं पुनः धर्मे | स्थापयति ३। तथा तस्यैव चारित्रधर्मस्य वृद्धये हितमभ्युत्तिष्ठति ॥४१२३ ॥
तत्र प्रथमभेदव्याख्यानार्थमाह
गाथा ४४१२३-४१२९
विक्षेपणाविनयादिः
|१५७४ (A)
For Private And Personal