________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् दशम
उद्देशकः १५२४ (B)
मध्यमम् २ उत्कृष्टं ३ च। तत्र ऋतुबद्धे जघन्यमाह
जहियं च तिन्नि गच्छा, पण्णरसुभया जणा परिवसंति। एयं वसभक्खेत्तं, तव्विवरीयं भवे इयरं ॥ ३९३१॥
उभौ जनौ आचार्यो गणावच्छेदकश्च, तत्राचार्य आत्मद्वितीयः, गणावच्छेदी आत्मतृतीयः, सर्वसङ्ख्यया पञ्च, ईदृशा यत्र त्रयो गच्छाः साधुसङ्ख्यया पञ्चदश परिवसन्ति। एतज्जघन्यमृतुबद्धे काले वृषभक्षेत्रम्। तद्विपरीतं यत्र तादृशाः पञ्चदश जना न संस्तरन्ति एतद् भवति इतरत् न वृषभक्षेत्रं भवतीति भावः । उत्कृष्टं वृषभक्षेत्रं यत्र द्वात्रिंशत् साधुसहस्राणि संस्तरन्ति, यथा ऋषभस्वामिकाले ऋषभसेनगणधरस्य। जघन्योत्कृष्टयोर्मध्ये मध्यमम्। वर्षाकाले यत्राचार्य आत्मतृतीयः, गणावच्छेदी त्वात्मचतुर्थः, सर्वसङ्ख्यया सप्त, एवम्प्रमाणा यत्र त्रयो गच्छाः संस्तरन्ति एतजघन्यं वर्षाकालप्रायोग्यं वृषभक्षेत्रम्। उत्कृष्टं मध्यमं च यथा ऋतुबद्धे काले, ईदृशेषु बहुगच्छोपग्रहकरेषु वृषभग्रामेषु सत्सु यदि वा एतेष्वेव साधारणेषु क्षेत्रेषु परस्परं भण्डनं न कर्त्तव्यं सचित्तादिनिमित्तम्, किन्तु सीमाच्छेदेन वस्तव्यम् ॥ ३९३१॥
तमेव सीमाच्छेदमाह
गाथा |३९३०-३९३६
क्षेत्रव्यवहारः
१५२४ (B)
For Private And Personal