________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देशक:
१३६८ (B)
www.kobatirth.org
चर्ममयः कोशः चर्मकोशः सोऽङ्गुष्ठस्य यदि वा अवरपार्ष्णिः पार्ष्णिका तस्याः परिरक्षणाय ध्रियते । अथवा नखरदनादेरौपग्रहिकोपकरणविशेषस्य चर्ममयः कोशश्चर्मकोशः, ये तु वधास्ते चर्मपरिच्छेदनकमित्युच्यन्ते, ते च छिन्नसन्धानार्थम्, अथवा द्विखण्डसन्धानहेतोः ध्रियन्ते । तदेवं विषमपदानि व्याख्यातानि ॥ ३४६१ ॥
सम्प्रति दण्डाद्युपकरणस्थापनचिन्तां चिकीर्षुराह -
जइ उ ठवेति असुन्ने, न य बेइ दिज्जहेत्थ ओहाणं ।
लहुगो सुन्ने लहुगा, हियम्मि जं जत्थ पावति उ ॥ ३४६२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यदि त्वशून्ये अविरहिते प्रदेशे दण्डाद्युपकरणं स्थापयति न च कस्यापि सम्मुखमेवं ब्रूते - अत्र दद्यादवधानमुपयोगमिति तदा तस्य प्रायश्चित्तं लघुको मासः । अथ शून्ये स्थापयति तदा चत्वारो लघुकाः । तथा शून्ये मुक्ते स्तेनैश्चापहृते यद् यत्र जघन्ये मध्यमे उत्कृष्टे वा उपकरणे प्रायश्चित्तमुक्तं तत् प्राप्नोति ॥ ३४६२ ॥
For Private and Personal Use Only
गाथा
| ३४५९-३४६६ वृद्धस्य
उपकरणविशेषा:
१३६८ (B)