________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
अष्टम उद्देशकः
जङ्घाबलपरिहीन उक्तोऽत्र तु जङ्गमविशेषः न सर्वथा जवाबलपरिहीनो वक्तव्यः, अथवाऽयं विशेषः-पूर्वसूत्रे योऽधिकृतो वृद्ध उक्तः स सहायैरविरहित उक्तोऽत्र तु यः सहायविरहितस्तस्य सामाचारी प्रतिपाद्या तथा चाह- सहायरहिते इयमधिकृतसूत्रप्रतिपाद्या यतना ॥ ३४५६॥
अनेन सम्बन्धेनाऽऽयातस्यास्य व्याख्या
१३६७ (A)
स्थविराणां जरसा जीर्णानां स्थविरभूमिं प्राप्तानां सूत्रार्थतदुभयोपेतानामित्यर्थः, कल्पते दण्डकं दण्डविदण्डादिभेदभिन्न, भण्डकम् अनेकविधानि उपकरणानि, छत्रकं प्रतीतं, मात्रकमुच्चारादिसत्कं, लष्टिका दण्डविशेषः। चेलं कल्पादि, चर्म तलिकादिरूपं, [चर्मकोशः] चर्मपरिच्छेदनकं वध्रा एतान् अविरहिते अवकाशे स्थापयित्वा गृहपतिकुलं पिण्डपातप्रतिपाताय प्रवेष्टं वा निष्क्रमितुं वा। कल्पते सन्निवृत्तचाराणां भिक्षाचर्यात: प्रत्यागतानां स्थविराणां द्वितीयमपि वारमवग्रहमनुज्ञाप्य परिहर्तुं धारणया परिभोगेन वा, इत्येष सूत्राक्षरार्थः ॥ विशेषव्याख्या तु भाष्यकृता क्रियते, तत्र यानि पदानि व्याख्येयानि तानि दर्शयति
गाथा ३४५४-३४५८ | वृद्धावासे विशेषयतनादिः
*१३६७ (A)
For Private and Personal Use Only