________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देशकः
१३५४ (B)
www.kobatirth.org
प्रथमद्वारव्याख्यानार्थमाह
ओभासिते अलद्धे, अव्वोच्छिन्ने य तस्स भावे उ । सोउं अन्नोभासइ, लद्धाणीतो पुरिल्लस्स ॥ ३४१६ ॥
सङ्घाटकेन भिक्षामटता संस्तारको दृष्टः, संस्तारकस्वामी च संस्तारकं याचितः परं न लब्धः, अथ च तस्य सङ्घाटकस्य संस्तारकोपरि भावोऽद्यापि न व्यवच्छिद्यते, तेन च सङ्घाटन गुरुसमीपमागत्यालोचितो यथा- 'अमुकस्य गृहे संस्तारको दृष्टो याचितश्च परं न लब्धो द्वितीयवारं याचिष्यते' एवमवभाषिते अलब्धेऽव्यवच्छिन्ने च तस्य संस्तारकस्योपरि भावे विकटनं श्रुत्वा अन्यः सङ्घाटकस्तत्र गत्वा याचते लभते च स लब्ध्वाऽऽनीतस्सन् कस्याभवति ? इत्यत आह- पूर्वस्य येन पूर्वमवभाषितोऽपि न लब्धस्तस्याऽऽभवति तद्विषयभावाव्यवच्छेदाद्, नेतरस्य ॥ ३४१६ ॥
साणि जहा दिट्ठे, अहभावादीणि जाव वोच्छिन्ने । दाराई जोएज्जा, छट्ठे विसेसं तु वोच्छामि ॥ ३४१७॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
܀܀܀܀܀
गाथा
| ३४१४-३४१९
संस्तारकमार्गणे
आभवनादिः
१३५४ (B)