________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
अष्टम उद्देशकः
अशिवादिभिः कारणैस्तत्र देशे गता ये वर्षारात्रे पानीयेन प्लाव्येत यथा | सिन्धुविषयेऽथवा तत्र देशे स्वभावत उषरा भूमिस्ततो रात्रौ शीतलवातसंपर्कतोऽवश्यायपतनतो
वा जलप्लावितेव सा भूमिरुपजायते, अथवा आसन्नीभूतेन पानीयेन तमवकाशमप्राप्नुवताऽपि भूमिः स्विद्यति तत्रोपधे: कोथनं मा भूयात् मा वा अजीर्णेन ग्लान्यमित्युपधिकोथनभयादजीर्णकभयाद्वा तृणानि गृह्णन्ति साधवः, तानि च अझुसिराणि असन्धीनि अबीजानि च, एतान्येकमुखानि क्रियन्ते। अत्र च अझुषिर-असंधि-अबीज एकमुखरूपेषु चतुर्षु पदेषु भङ्गषोडशकं षोडश भङ्गा ते च प्रस्तारतोऽवगन्तव्याः
१३४३ (A)
।।। ।।
।।।। ।।।। ।। । TISS
। ।। । । । । ISSS
5 ।। SSIS 555 SSSS
गाथा ३३७३-३३७७
कारणे ऋतुबद्धेकाले संस्तारकग्रहणविधिः
SISS
१३४३ (A)
तत्र अझुषिरादिपदव्याख्यानार्थमाह
For Private and Personal Use Only