________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
नवम
उद्देशकः १४७८ (A)
वाक्यालङ्कारे सा एका दत्तिरिति वक्तव्यं स्यात्, तत्र से तस्य साधोर्बहवो भुञ्जाना भिक्षार्थं साधुमागतं दृष्ट्वा सर्वे ते स्वीयं स्वीयं पिण्डं संहृत्य एकं पिण्डं कृत्वा अन्तः पतद्ग्रहे उवइत्ता अवनम्य दद्यात् सर्वाऽपि णमिति पूर्ववत् [सा] एका दत्तिरिति वक्तव्यम्। एतत् सूत्रं | पतद्ग्रहधारिण उक्तम्। सम्प्रति पाणिपतद्ग्रहविषयमाह
पाणीत्या [दि], पाणिपतद्ग्रहस्यापि विषये एवमेव सूत्रं वक्तव्यमिति सूत्रसक्षेपार्थः ॥ सम्प्रति भाष्यविस्तर:
हत्थेण व मत्तेण व, भिक्खा होइ समुजया । दत्तितो जत्तिए वारे, खिवती होति तत्तिया ॥ ३७९० ॥
हस्तेन वा मात्रेण वा या समुद्यता उत्पाटिता भिक्षा सा भिक्षेत्युच्यते । दत्तयः | पुनस्तामेव भिक्षां यावतो वारान् विच्छिद्य विच्छिद्य क्षिपति तावत्यो भवन्ति ॥ ३९९०॥
अव्वोच्छिन्ननिवाया उ, दत्ती होइ उ वेतरा । एगाऽणेगासु चत्तारि, विभागा भिक्ख-दत्तिसु ॥ ३९९१॥
गाथा ३७९०-३७९५
दत्तिभिक्षादायकभङ्गाः
|१४७८ (A)
For Private and Personal Use Only