________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
नवम
उद्देशकः
१४७२ (A)
܀܀܀܀
www.kobatirth.org
सम्प्रति विषमपदव्याख्यानमाह
एगदुमो होइ वणं, इगजातीया य जे जहिं रुक्खा । विवरीयं तु विदुग्गं, एसेव य पव्वए वि गमो ॥ ३७७० ॥ एक द्रुमः एकजातीया ये वृक्षास्ते यत्र विद्यन्ते तद् भवति वनम्, विपरीतं नानाजातीयद्रुमरूपं [वनं] विदुर्गम् । एष एव गमः पर्वतेऽपि द्रष्टव्यः एकः पर्वतः पर्वतः, नानारूपपर्वतसङ्घातः पर्वतविदुर्गम् ॥ ३७७०॥
सम्प्रति येन विधिना बहिर्निर्गच्छति तं विधिमाह
निसिज्जं चोलपट्टं, कप्पं घेत्तूण मत्तगं चेव ।
एते पडिवज्जइ, काऊण दिसाण चाऽऽलोयं ॥ ३७७१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
निषद्यां सोत्तरां चोलपट्टं कल्पं मात्रकं च कायिकीमात्रकं च गृहीत्वा ग्रामादेर्बहिर्विनिर्गच्छति, विनिर्गत्यैकान्ते प्रतिमां प्रतिपद्यते, तत्र कायिकीसमागमे तां मात्रके व्युत्सृज्यानापा असंलोके दिशां चाऽऽलोकं कृत्वा आपिबति । यद्यपि स सातिशयोऽतिशयज्ञानेनैव जानाति सागारिकोऽस्ति न वा? इति, तथापि सामाचारी पालिता भवतु इति कृत्वा दिशामालोकं
For Private and Personal Use Only
गाथा ३७७०-३७७७ मोकप्रतिमाविधि:
१४७२ (A)